________________
आगम
(४०)
प्रत
सूत्रांक
॥७..॥
दीप
अनुक्रम [s..]
आवश्यक - हारिभ•
द्रीया
||५३९||
आवश्यक”- मूलसूत्र-१ (मूलं+निर्युक्तिः+वृत्ति:)
अध्ययन [३], मूलं [-] / [गाथा - ७...], निर्युक्तिः [११९१], भाष्यं [ २०४...],
यतो ज्ञानाद्यपगमेऽपि व्यवहारतस्तु साधव एवेति, 'एते' प्रस्तुता अवन्दनीयाः, ये किंभूताः १- 'यशोघातिनः' यशोऽभि नाशकाः, कस्य ? - प्रवचनस्य, कथं यशोघातिनः १, श्रमणगुणोपात्तं यद् यशस्तत्तद्गुणवितथासेवनतो घातयन्तीति गाथार्थः ॥ ११९१ ॥ पार्श्वस्थादिवन्दने चापायान्निगमयन्नाह-
किकम्मं च पसंसा सुहसीलजणम्मि कम्मबंधाय । जे जे पमायठाणा ते ते उबबूहिया हुंति ॥ ११९२ ॥ व्याख्या – 'कृतिकर्म' वन्दनं 'प्रशंसा च' बहुश्रुतो विनीतो वाऽयमित्यादिलक्षणा 'सुखशीखजने' पार्श्वस्थजने कर्मबन्धाय, कथं ? - यतस्ते पूज्या एव वयमिति निरपेक्षतरा भवन्ति, एवं यानि यानि प्रमादस्थानानि येषु विषीदन्ति पार्श्व | स्थादयस्तानि तानि 'उपबृंहिनानि भवन्ति' समर्थितानि भवन्ति - अनुमतानि भवन्ति, तत्प्रत्ययश्च बन्ध इति गाथार्थः ॥ ११९२ ॥ यस्मादेतेऽपायास्तस्मात् पार्श्वस्थादयो न वन्दनीयाः साधव एव वन्दनीया इति निगमयन्नाह - दंसणनाणचरिते तबविणए निञ्चकालमुज्जुत्ता । एए उ वंदणिज्या जे जसकारी पवयणस्स ॥ ११९३ ॥ व्याख्या - दर्शनज्ञान चारित्रेषु तथा तपोविनययोः 'नित्यकाल' सर्वकालम् 'उद्युक्ता' उद्यता एत एव वन्दनीयाः, ये विशुद्ध मार्गप्रभावनया यशःकारिणः प्रवचनस्येति गाथार्थः ॥ ११९३ ॥ अधुना सुसाधुवन्दने गुणमुपदर्शयन्नाह - किकम्मं च पसंसा संविग्गजणंमि निज्जरहाए। जे जे विरईठाणा ते ते उबवूहिया हुंति ॥ ११९४ ॥ व्याख्या – 'कृतिकर्म' वन्दनं 'प्रशंसा च' बहुश्रुतो विनीतः पुण्यभागित्यादिलक्षणा संविग्नजने 'निर्जरार्थाय' कर्मक्षयाय कथं ?--यानि (यानि ) विरतिस्थानानि येषु वर्तन्ते संविघ्नास्तानि तानि 'उपबृंहितानि भवन्ति' अनुमतानि भवन्ति, तद
३ वन्दनाध्ययने योग्यायो
ग्यवन्दने गुणदोषाः
~1081~
||५३९||
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४०], मूलसूत्र [०१] “आवश्यक मूलं एवं हरिभद्रसूरि-रचित वृत्तिः पार्श्वस्थादि वन्दने दोषाः वर्ण्यते