SearchBrowseAboutContactDonate
Page Preview
Page 1061
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक ||..|| दीप अनुक्रम [s..] आवश्यक”- मूलसूत्र-१ (मूलं+निर्युक्ति:+वृत्ति:) अध्ययन [३], मूलं [-] / [गाथा - ७...], निर्युक्तिः [११४६], भाष्यं [ २०४...], प्रवाहेण, एवं ज्ञानी चरणहीनः संसारनद्यां प्रमादश्रोतसोह्यत इत्युपनयः, तस्माच्चरणविकलस्य ज्ञानस्य किञ्चित्करत्वादुभययुक्तस्यैव कृतिकर्म कार्यमिति गाथाभिप्रायार्थः ॥ १९४६ ॥ एवमसहायज्ञानपक्षे निराकृते ज्ञानचरणोभयपक्षे च समर्थिते सत्यपरस्वाह गुणाहिए वंदrयं छमत्थो गुणागुणे अयाणंतो । वंदिला गुणहीणं गुणाहियं वावि वंदावे ।। ११४७ ॥ व्याख्या -- इहोत्सर्गतः गुणाधिके साधौ वन्दनं कर्तव्यमिति वाक्यशेषः, अयं चार्थः श्रमणं वन्देतेत्यादिप्रन्यात्सिद्धः, गुणहीने तु प्रतिषेधः पञ्चानां कृतिकर्मेत्यादिग्रन्थाद्, इदं च गुणाधिकत्वं गुणहीनत्वं च तत्त्वतो दुर्विज्ञेयम्, अतश्छद्मस्थस्तस्वतो गुणागुणान् आत्मान्तरवर्तिनः 'अजानन्' अनवगच्छन् किं कुर्यात् ?, वन्देत वा गुणहीनं कश्चित् गुणाधिकं चापि वन्दापयेत् उभयथाऽपि च दोषः, एकत्रागुणानुज्ञाप्रत्ययः अन्यत्र तु विनयत्यागप्रत्ययः, तस्मात्तूष्णीभाव एव श्रेयान् अलं वन्दनेनेति गाथाभिप्रायः ।। ११४७ ॥ इत्थं चोदकेनोके सति व्यवहारनयमत्तमधिकृत्य गुणाधिकत्वपरिज्ञानकारणानि प्रतिपादयन्नाचार्य आह आलएणं विहारेणं ठाणाचंकमणेण य । सको सुविहिओ नाउं भासावेणइएण य ॥ ११४८ ॥ व्याख्या— आलयः- वसतिः सुप्रमार्जितादिलक्षणाऽधवा स्त्रीपशुपण्डकविवर्जितेति, तेनाऽऽलयेन, नागुणवत एवंविधः खल्वालयो भवति, विहारः- मासकल्पादिस्तेन विहारेण, स्थानम् ऊर्ध्वस्थानं, चङ्क्रमणं - गमनं स्थानं च चङ्क्रमणं चेत्येकवद्भावस्तेन च, अविरुद्ध देश कायोत्सर्गकरणेन च युगमात्रावनिप्रलोकनपुरस्सराद्भुतगमनेन चेत्यर्थः शक्यः सुवि मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [४०], मूलसूत्र - [०१] "आवश्यक मूलं एवं हरिभद्रसूरि-रचित वृत्तिः ~ 1060~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy