________________
आगम
(४०)
प्रत
सूत्रांक
॥७..॥
दीप
अनुक्रम
[९..]
आवश्यक
हारिभ
द्रीया
॥ ५२८ ॥
आवश्यक”- मूलसूत्र-१ (मूलं+निर्युक्ति:+वृत्ति:)
अध्ययन [३], मूलं [-] / [गाथा - ७...], निर्युक्तिः [११४४] भाष्यं [ २०४...],
व्याख्या - आतोद्यानि - मृदङ्गादीनि नृत्तं-करचरणनयनादिपरिस्पन्द विशेषलक्षणम् आतोद्यैः करणभूतैर्नृत्तम् आतोद्यनृत्तं तस्मिन् कुशला- निपुणा आतोद्यनृत्तकुशला, असावपि नर्तकी, अपिशब्दात् रङ्गजनपरिवृताऽपि 'तं जनं' रङ्गजनं 'न तोषयति' न हर्ष नयतीत्यर्थः किम्भूता सती !-'योगमयुञ्जन्ती' कायादिव्यापारमकुर्वती, ततश्चापरितुष्टाद् रङ्गजनान्न किञ्चिदू द्रव्यजातं लभत इति गम्यते, अपि तु निन्दां खिंसां च सा लभते रङ्गजनादिति, तत्समक्षमेव या हीलना सा निन्दा, परोक्षे तु सा खिंसेति गाथार्थः । ११४४ ॥ इत्थं दृष्टान्तमभिधाय दार्शन्तिकयोजनां प्रदर्शयन्नाह - इय लिंगनाणसहिओ काइयजोगं न जुंजई जो उन लहइ स मुक्खसुक्खं लहइ य निंद सपक्खाओ ।। ११४५ ॥
व्याख्या – 'इय' एवं लिङ्गज्ञानाभ्यां सहितो युक्तो लिङ्गज्ञानसहितः 'काययोगं' कायव्यापारं 'न युङ्क्ते' न प्रवर्तयति, यस्तु 'न लभते' न प्राप्नोति 'स' इत्थम्भूतः किं १-'मोक्षसौख्यं' सिद्धिमुखमित्यर्थः, लभते तु निन्दां स्वपक्षात् चशब्दाविसांच, इह च नर्तकीतुल्यः साधुः, आतोद्यतुल्यं द्रव्यलिङ्गं, नृत्तज्ञानतुल्यं ज्ञानं, योगव्यापारतुल्यं चरणं, रङ्गपरितोषतुल्यः सङ्घपरितोषः, दानलाभतुल्यः सिद्धिमुखलाभः, शेषं सुगमं, यत एवमतो ज्ञानचरणसहितस्यैव कृतिकर्म कार्यमिति गाथाभावार्थः । ११४५ ॥ चरणरहितं ज्ञानमकिञ्चित्करमित्यस्यार्थस्य साधका बहवो दृष्टान्ताः सन्तीति प्रदर्शनाय पुनरपि दृष्टान्तमाह
जाणतोऽवि य तरिडं काइयजोगं न जुंजइ नईए । सो बुज्झइ सोएर्ण एवं नाणी चरणहीणो ।। ११४६ ॥ व्याख्या - जानन्नपि च तरीतुं यः 'काययोगं' कायव्यापारं न युङ्क्ते नद्यां स पुमान् 'उद्यते' हियते 'श्रोतसा' पयः
वन्दनाध्ययने ज्ञानिद्वारं सोत्तरं
~ 1059~
॥५२८॥
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४०], मूलसूत्र - [०१] "आवश्यक मूलं एवं हरिभद्रसूरि-रचित वृत्तिः