________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम [-]
“आवश्यक”- मूलसूत्र-१ (मूलं+निर्युक्तिः+वृत्तिः) अध्ययनं [ - ], मूलं [- /गाथा - ], निर्युक्ति: [७९], भाष्यं [-]
साम्प्रतं मङ्गसाध्यः प्रकृतोऽनुयोगः प्रदर्श्यत इति, स च स्वपरप्रकाशकत्वात् गुर्वायत्तत्वाच्च श्रुतज्ञानस्येति, तथा चोक्तं- 'अत्र पुनरधिकारः श्रुतज्ञानेनेत्यादि' । आह- नन्वावश्यकस्यानुयोगः प्रकृत एव पुनः श्रुतज्ञानस्येत्ययुक्तमिति, अत्रोच्यते, आवश्यकस्य श्रुतान्तर्गतत्वप्रदर्शनार्थत्वाददोषः । आह-य द्यावश्यकस्यानुयोगः, तदावश्यकं किमङ्गमङ्गानि ? श्रुतस्कन्धः श्रुतस्कन्धाः ? अध्ययनमध्ययनानि ? उद्देशक उद्देशकाः इति, अत्रोच्यते, आवश्यकं श्रुतस्कन्धस्तथाऽध्ययनानि च, शेषास्वनादेशा विकल्पा इति । आह—ननु नन्दीव्याख्याने अङ्गानङ्गप्रविष्टश्रुतनिरूपणायामनङ्गताऽस्याभिहितैव ततश्च किमङ्गमङ्गानीत्याद्याशङ्कानुपपत्तिरिति, अत्रोच्यते, तद्व्याख्यांऽनियमप्रदर्शनार्थत्वाददोषः, नावश्यं शास्त्रादौ नन्द्यध्ययनार्थकथनं कर्त्तव्यं, अकृते चाशङ्का संभवति । आह - मङ्गलार्थ शास्त्रादाववश्यमेव नन्येभिधानात् कथमनियम इति, अत्रोच्यते, ज्ञानाभिधानमात्रस्यैव मङ्गलत्वात् नावश्यमवयवार्थाभिधानं कर्त्तव्यमिति, तदकरणे चाशङ्का ६ भवति । किं चै— आवश्यकव्याख्यानारम्भे शास्त्रान्तरव्याख्यानारम्भोऽयुक्त एव, शाखान्तरं च नन्दी, पृथक् श्रुतस्कन्धत्वात् । आह— यद्येवमिह आवश्यकश्रुतस्कन्धानुयोगारम्भे किमिति तदनुयोग इति उच्यते, शिष्यानुग्रहार्थ
१] एकोनविंशतिगाथाभ्याख्याने २ ज्ञानपञ्चकनिरूपकप्रकरणतथा नन्यध्ययनत्वात् २ अङ्गमङ्गानि किमिवाचामीचा. ४ नोवागमतो भावमङ्गखं हि नन्दी यतः ५ मूलसूत्रापेक्षया मन्दीव्याख्यानाऽनियमप्रदर्शनाय पक्षान्तरं-किशेत्यादि. ६ तस्य ज्ञानपञ्चकनिरूपणनिपुणप्रकरणानुयोगः * आवश्यका० + व्ययानानि भवति. मप्रदर्शनार्थत्वाददोष इति व्याह्नासंभव इति.
Education intemational
For Fans Only
मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [४०], मूलसूत्र - [०१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्तिः अत्र उपोद्घात् निर्युक्ति: आरभ्यते
~104~