________________
आगम
(४०)
प्रत
सूत्रांक
॥७..॥
दीप
अनुक्रम
[९..]
आवश्यकहारिभद्रीया
॥५२१॥
आवश्यक”- मूलसूत्र-१ (मूलं+निर्युक्ति:+वृत्ति:)
अध्ययन [३], मूलं [-] / [गाथा - ७...], निर्युक्तिः [१११४], भाष्यं [ २०३...],
ताच्छीलिकत्वादिति, तद्विपरीतानि अभाव्यानि च नलादीनि लोके 'द्विविधानि' द्विप्रकाराणि भवन्ति 'द्रव्याणि' वस्तूनि, वैडूर्यस्तत्र मणिरभाव्यः 'अन्यद्रव्यैः' काचादिभिरिति गाथार्थः ॥ १११४ ॥ स्यान्मतिः- जीवोऽप्येवम्भूत एव भविष्यति न पार्श्वस्थादिसंसर्गेण तद्भावं यास्यति, एतच्चासत्, यतः ---
जीवो अणाइनिहणो तन्भावणभाविओ य संसारे । विष्पं सो भाविज्जर मेलणदोसाणुभावेणं ॥ १११५ ।। व्याख्या- 'जीवः' प्राग्निरूपितशब्दार्थः, स हि अनादिनिधनः अनाद्यपर्यन्त इत्यर्थः, 'तद्भावनाभावितश्च' पार्श्वस्थाखाश्चरितप्रमादादिभावनाभावितश्च 'संसारे' तिर्यग्नरनारकामरभवानुभूतिलक्षणे, ततश्च तद्भावनाभावितत्वात् 'क्षिप्रं शीघ्रं स 'भाव्यते' प्रमादादिभावनयाऽऽत्मीक्रियते 'मीलनदोषानुभावेन' संसर्गदोषानुभावेनेति गाथार्थः ॥ १११५ ॥ अथ भवतो दृष्टान्तमात्रेण परितोषः ततो मद्विवक्षितार्थप्रतिपादकोऽपि दृष्टान्तोऽस्त्येव, शृणु
अंबरस य निंबस्स य दुण्हंपि समागयाई मूलाई । संसग्गीह विणडो अंबो नित्तणं पत्तो ॥ १११६ ।। व्याख्या - चिरपतिततिक्क निम्बोदकवासितायां भूमौ आम्रवृक्षः समुत्पन्नः पुनस्तत्राऽऽम्रस्य च निम्बस्य च द्वयोरपि 'समागते' एकीभूते मूले, ततश्च 'संसर्ग्य' सङ्गत्या विनष्ट आम्रो निम्बत्वं प्राप्तः- तिक्कफलः संवृत्त इति गाथार्थः ॥ १११६ ॥ तदेवं संसर्गिदोषदर्शनात्त्याज्या पार्श्वस्थादिसंसर्गिरिति । पुनरप्याह चोदकः- नन्वेतदपि सप्रतिपक्षं, तथाहि[सुचिरंषि अच्छमाणो नलथंभो उच्छुवाडमज्झमि । कीस न जाय महुरो ? जइ संसग्गी पमाणं ते ॥ १११७ ॥ व्याख्या- 'सुचिरमपि' प्रभूतकालमपि तिष्ठन् 'नलस्तम्बः' वृक्षविशेषः 'दक्षुवाटमध्ये' इक्षुसंसर्ग्या किमिति न जायते
वन्दनाध्ययने संसर्गजा
दोषगुणाः
~ 1045~
॥५२१॥
मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [४०], मूलसूत्र - [०१] "आवश्यक” मूलं एवं हरिभद्रसूरि-रचित वृत्तिः