________________
आगम
“आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः) अध्ययनं [-], मूलं [- /गाथा-], नियुक्ति: [७७], भाष्यं [-]
(४०)
2-5-15:4%
प्रत
सूत्राक
| अप्रतिपातिनोऽप्यवधिज्ञानस्य शाश्वतत्वानुपपत्तेः, तस्मादुभयमपि युक्तमिति । 'एकविधं ' एकप्रकार, आवरणाभावात् | भयस्यैकरूपत्वात् , 'केवलं' मत्यादिनिरपेक्षं ज्ञानं ' संवेदनं, केवलं च तत् ज्ञानं चेति समास इति गाथार्थः ॥ ७७ ॥
इह तीर्थकृत् समुपजातकेवलः सत्त्वानुग्रहार्थ देशनां करोति, तीर्थकरनामकर्मोदयात् , ततश्च ध्वनेः श्रुतरूपत्वात् तस्य च भावश्रुतपूर्वकत्वात् श्रुतज्ञानसंभवादनिष्टापत्तिरिति मा भून्मतिमोहोऽव्युत्पन्नबुद्धीनामित्यतस्तद्विनिवृत्त्यर्थमाह
केवलणाणेणत्थे गाउं जे तत्थ पपणवणजोगे । ते भासह तित्थयरो वयजोग सुयं हवद सेसं ।। ७८ ॥ ___ व्याख्या-इह तीर्थकरः केवलज्ञानेन ' अर्थान् ' धर्मास्तिकायादीन मूर्तामनि अभिलाप्यानभिलाप्यान् ' ज्ञात्वा' विनिश्चित्य, केवलज्ञानेनैव ज्ञात्वा न तु श्रुतज्ञानेन, तस्य क्षायोपशमिकत्वात् , केवलिनश्च तदभावात् , सर्वशुद्धौ देशशुयभावादित्यर्थः । ये 'तत्र ' तेषामर्थानां मध्ये, प्रज्ञापनं प्रज्ञापना तस्या योग्याः प्रज्ञापनायोग्याः 'तान् भापते' तानेव वक्ति नेतरानिति, प्रज्ञापनीयानपि न सर्वानेव भापते, अनन्तत्वात, आयुषः परिमितत्वात, वाचः क्रमवर्तित्वाच्च, किं तर्हि !, योग्यानेव गृहीतृशक्त्यपेक्षया यो हि यावतां योग्य इति । तत्र केवलज्ञानोपलब्धार्थाभिधायकः शब्दराशिः प्रोच्यमानस्तस्य भगवतो वाग्योग एव भवति, न श्रुतं, नामकर्मोदयनिबन्धनत्वात् , श्रुतस्य च क्षायोपशमिकत्वात्, सच | श्रुतं भवति शेष, शेषमित्यप्रधानं, एतदुक्तं भवति-श्रोतृणां श्रुतग्रन्थानुसारिभाव श्रुतज्ञाननिवन्धनत्वाच्छेषमप्रधानं द्रव्यश्रुतमित्यर्थः । अन्ये त्वेवं पठन्ति-वयजोगसुयं हवइ तेर्सि' स वाग्योगः श्रुतं भवति 'तेषां ' श्रोतां, भाषश्रुतकारणत्वादित्यभिप्रायः । अथवा 'चाग्योगश्रुतं' द्रव्यश्रुतमेवेति गाथार्थः ॥ ७८ ॥
+
दीप
+
अनुक्रम
C--
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक मूलं एवं हरिभद्रसूरि-रचित वृत्ति:
~ 102~