________________
आगम
(४०)
प्रत
सूत्रांक
||||
दीप
अनुक्रम [<]
आवश्यक”- मूलसूत्र-१ (मूलं+निर्युक्तिः+वृत्तिः)
अध्ययन [२], मूलं [-] / [गाथा-६], निर्युक्तिः [११०० ], भाष्यं [ २०३...]
स्यादेतद् एवं सत्याद्यस्य बोधिलाभस्यासम्भव एवोपन्यस्तः, वासनाऽभावात् न, अनादिसं सारे राधावेधोपमानेनानाभोगत एव कथञ्चित्कर्मक्षयतस्तदवाप्तेरित्येतदावेदितमेवोपोद्घात इत्यलं विस्तरेणेति गाथाद्वयार्थः ॥ १०९९-११००॥ तस्मात्सति बोधिलाभे तपस्संयमानुष्ठानपरेण भवितव्यं, न यत्किञ्चि चैत्याद्यालम्बनं चेतस्याधाय प्रमादिना भवितव्यमिति, तपस्संयमोद्यमवतश्चैत्यादिषु कृत्याविराधकत्वात्, तथा चाऽऽह
|| चेहयकुलगणसंघ आयरिआणं च पवयण सुए अ । सव्वेसृवि तेण कयं तवसंजममुज्जमंतेणं ॥ ११०१ ॥
व्याख्या— चैत्यकुलगणसङ्गेषु तथाऽऽचार्याणां च तथा प्रवचनश्रुतयोश्च किं ?, सर्वेष्वपि तेन कृतं कृत्यमिति गम्यते, केन ?, तपःसंयमोद्यमत्रता साधुनेति, तत्र चैत्यानि - अर्हत्प्रतिमा लक्षणानि, कुलं- विद्याधरादि, गणः - कुलसमुदायः सङ्घः- समस्त एव साध्वादिसङ्घातः, आचार्याः प्रतीताः चशब्दा दुपाध्यायादिपरिग्रहः, भेदाभिधानं च प्राधान्यख्यापनार्थम् एवमन्यत्रापि द्रष्टव्यं प्रवचनं द्वादशाङ्गमपि सूत्रार्थतदुभयरूपं श्रुतं सूत्रमेव, चशब्दः स्वगतानेकभेदप्रदर्शनार्थः, एतेषु सर्वेष्वपि स्थानेषु तेन कृतं कृत्यं यस्तपःसंयमोद्यमवान् वर्तते, इयमत्र भावना अयं हि नियमात् ज्ञानदर्शनसम्पन्नो भवति अयमेव च गुरुलाघवमालोच्य चैत्यादिकृत्येषु सम्यक् प्रवर्तते यथैहिकामुष्मिक गुणवृद्धिर्भवति, विपरीतस्तु कृत्येऽपि प्रवर्तमानोऽप्यविवेकादकृत्यमेव संपादयति, अत्र बहु वक्तव्यमिति गाथार्थः ॥ ११०१ ॥ एवं तावद्गतं सूत्रमूल 'एवं मए अभिथुए'त्यादि गाथाद्वयं, साम्प्रतं
चंदे निम्मलयरा आइश्चेसु अहिअं पयासपरा । सागरवरगंभीरा सिद्धा सिद्धिं मम दिसंतु ॥ ७ ॥
मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [४०], मूलसूत्र - [०१] "आवश्यक मूलं एवं हरिभद्रसूरि-रचित वृत्तिः मूलसूत्रस्य गाथा ७ एवं तस्या व्याख्या
~ 1022 ~