________________
आगम
आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययन [२], मूलं [-] / [गाथा-६], नियुक्ति: [१०९८], भाष्यं [२०३...]
(४०)
२ चतुर्वि
आवश्यकहारिभद्रीया ॥५०॥
52
वाध्य.
प्रत
सुत्रांक
||६||
भत्तीइ जिणवराणं परमाए खीणपिज्जदोसाणं । आरुग्गबोहिलार्भ समाहिमरणं च पार्वति ॥ १०९८ ॥ ___ व्याख्या-भक्त्या जिनवराणां, किंविशिष्टया ?-'परमया' प्रधानया भावभक्त्येत्यर्थः, 'क्षीणप्रेमद्वेषाणां' जिनाना, किम् !, आरोग्यबोधिलाभं समाधिमरणं च प्राप्नुवन्ति प्राणिन इति, इयमत्र भावना-जिनभक्त्या कर्मक्षयस्ततः सकलकल्याणावाप्तिरिति, अत्र समाधिमरणं च प्राप्नुवन्तीत्येतदारोग्यबोधिलाभस्य हेतुत्वेन द्रष्टव्यं, समाधिमरणप्राप्तौ नियमत एव तत्प्राप्तिरिति गाथार्थः ।। १०९८ ॥ साम्प्रतं बोधिलाभप्राप्तावपि जिनभक्तिमात्रादेव पुनवोंधिलाभो भविष्यत्येव, | किमनेन वर्तमानकालदुष्करेणानुष्ठानेने त्येवंवादिनमनुष्ठानप्रमादिनं सत्त्वमधिकृत्यौपदेशिकमिदं गाथाद्वयमाहलद्धिल्लिअंच बोहिं अकरितोऽणागयं च पत्तो । दच्छिसि जह तं विम्भल!इमं च अन्नं च चुफिहिसि ॥१०९९॥ लडिल्लिअंच घोहिं अकरितोऽणागयं च पत्थंतो । अन्नंदाई योहिं लम्भिसि कयरेण मुल्लेण! ॥ ११००॥
व्याख्या-लद्धेलियं चत्ति लब्धां च-प्राप्तां च वर्तमानकाले, कां!, 'बोधि' जिनधर्मप्राप्तिम् , 'अकुर्वन्' इति कर्मपराधीनतया सदनुष्ठानेन सफलामकुर्वन् 'अनागतां च' आयत्यामन्यां च प्रार्थयन् , किम् ?, द्रक्ष्यसि यथा त्वं हे विह्वल!जडप्रकृते ! इमां चान्यां बोधिमधिकृत्य, किं, 'चुक्किहिसि' देशीवचनतः चश्यसि, न भविष्यतीत्यर्थः ।। तथा लब्धां च बोधिमकुर्वन्ननागतां च प्रार्थयन्, अन्नंदाइंति निपातः असूयायाम् , अन्ये तु व्याचक्षते-अन्यामिदानी बोधिं| लप्स्यसि, किं , कतरेण मूल्येन ?, इयमत्र भावना-बोधिलाभे सति तपःसंयमानुष्ठानपरस्य प्रेत्य वासनावशात्तत्तत्प्रवृत्तिरेव बोधिलाभोऽभिधीयते, तदनुष्ठानरहितस्य पुनर्वासनाऽभावात्तत्कथं तत्प्रवृत्तिरिति बोधिलाभानुपपत्तिः,
दीप अनुक्रम
५०९॥
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति:
~ 1021~