________________
आगम
आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [२], मूलं [-] / [गाथा-६], नियुक्ति: [१०९२], भाष्यं [२०३...]
(४०)
50
प्रत
सुत्रांक
रणेति गाथार्थः ॥ ६ ॥ व्याख्यातं लेशत इदं सूत्रगाथाद्वयम् , अधुना सूत्रस्पर्शिकया प्रतन्यते, तत्राभिष्टवकीर्तनकार्थिकानि प्रतिपादयन्नाहथुइधुणणदणनमंसणाणि एगडिआणि एयाणि । कित्तण पसंसणावि अविणयपणामे अ एगट्ठा ॥ १०९२॥ ___ व्याख्या-स्तुतिः स्तवनं वन्दनं नमस्करणम् एकाधिकान्येतानि, तथा कीर्तनं प्रशंसैव विनयप्रणामौ च एकार्थिकानीति गाथार्थः ॥ १०९२ ॥ साम्प्रतं यदुक्तम् 'उत्तमा' इति तयाचिख्यासुरिदमाहमिच्छत्तमोहणिज्जा नाणावरणा चरित्तमोहाओ । तिविहतमा उम्मुक्का तम्हा ते उत्तमा हुंति ॥ १०९३ ।।
व्याख्या-मिथ्यात्वमोहनीयात् तथा ज्ञानावरणात्तथा चारित्रमोहाद् इति, अत्र मिथ्यात्वमोहनीयग्रहणेन दर्शनसप्तकं गृह्यते, तत्रानन्तानुबन्धिनश्चत्वारः कषायास्तथा मिथ्यात्वादित्रयं च, ज्ञानावरणं मतिज्ञानाद्यावरणभेदात् पञ्चविधं, चारित्रमोहनीयं पुनरेकविंशतिभेदं, तच्चानन्तानुवन्धिरहिता द्वादश कषायास्तथा नव नोकषाया इति, अस्मादेव यतस्त्रिबिधतमसः, किम् ?-उन्मुक्ताः-प्राबल्येन मुक्ताः, पृथग्भूता इत्यर्थः, तस्मात्ते भगवन्तः, किम् ?, उत्तमा भवन्ति, ऊर्थ तमोवृत्तेरिति गाथार्थः॥१०९३।। साम्प्रतं यदुक्तं 'आरोग्यबोधिलाभ'मित्यादि, अत्र भावार्थमविपरीतमनवगच्छन्नाहआरुग्गयोहिलाभं समाहिवरमुत्तमं च मे दितु । किं नु हुनिआणमेअंति', विभासा इत्थ कायब्बा ॥१०९४॥ | व्याख्या-आरोग्याय बोधिलाभः आरोग्यबोधिलाभस्तं, भावार्थः प्रागुक्त एव, तथा समाधिवरमुत्तमं च में मम ददत्विति यदुक्तम् , अत्र काका पृच्छति-'किं नु हुणियाणमेति तत्र किमिति परप्रश्ने, नु इति वितर्के, हु तत्समर्थने,
दीप अनुक्रम
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति:
~ 1018~