________________
आगम
(१८)
प्रत
सूत्रांक
[१५३]
दीप
अनुक्रम
[२९९]
“जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र- ७ (मूलं+वृत्तिः)
वक्षस्कार [७],
मूलं [१५३]
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१८], उपांग सूत्र [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्तिः
वालवं कौलवं स्त्रीविलोचनं अन्यत्रास्य स्थाने तैतिलमिति गरादि अन्यत्र गरं वणिजं विष्टिः शकुनिः चतुष्पदं नागं किंस्तुनमिति । एतेषां च चरस्थिरत्वादिव्यक्तिप्रश्नमाह-'एतेसि णं' इत्यादि, एतेषां भदन्त ! एकादशानां करणानां मध्ये कति करणानि चराणि कति करणानि स्थिराणि प्रज्ञप्तानि १, चकारोऽत्र गम्यः, भगवानाह - गौतम ! सप्त करणानि चराणि अनियततिथिभावित्वात् चत्वारि करणानि स्थिराणि नियततिथिभावित्वात्, तद्यथा-ववादीनि सूत्रोक्तानि ज्ञेयानि, एतानि सप्त करणानि चराणि इत्येतन्निगमनवाक्यं चत्वारि करणानि स्थिराणि प्रज्ञप्तानि तद्यथा - शकुन्यादीनि सूत्रोकानि, एतानि चत्वारि करणानि स्थिराणि प्रज्ञतानि इति तु निगमनवाक्यं, प्रारम्भकनिगमनवाक्यद्वयभेदेन नात्र पुनरुक्तिः ॥ एतेषां स्थाननियमं प्रष्टुमाह- 'एतेसि ण' भित्यादि, सर्वे चैतन्निगदसिद्धम्, नवरं दिनरात्रिविभागेन यत्पृथकथनं तत्करणानां तिथ्यर्द्धप्रमाणत्वात्, कृष्णचतुर्दश्यां रात्रौ शकुनिः अमावास्यायां दिवा चतुष्पदं रात्रौ नागं शुक्लपक्षप्रतिपदि दिवा किंस्तुघ्नं चेति चत्वारि स्थिराणि, आस्वेव तिथिषु भवन्तीत्यर्थः । अथ यद्यपि सर्वस्यापि कालस्य सदा परिवर्तनस्वभावत्वेनाद्यन्ताभावाद्वक्ष्यमाणसूत्रारम्भोऽनुपपन्नस्तथाप्यस्त्येव कालविशेषस्याद्यन्तविचारः अतीतः पूर्वः संवत्सरः सम्प्रतिपन्नश्चोत्तरः संवत्सर इत्यादिव्यवहारस्याध्यक्षसिद्धत्वात् तेन कालविशेषाणामादिं पृच्छति-किमाइआ णं भन्ते ! संवच्छरा किमाइआ अयणा किमाइआ उऊ किमाइआ मासा किमाइआ पक्या किमाइआ अहोरचा किमाइस मुहुदा किमाइआ करणा किमाइआ णक्खत्ता पण्णता ?, गोअमा । चंदाइआ संवच्छरा दक्खिणाइया अयणा पाउसाइआ
For P&Praise City
~990~