SearchBrowseAboutContactDonate
Page Preview
Page 987
Loading...
Download File
Download File
Page Text
________________ आगम (१८) "जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [७], ---- -------- मूलं [१५२] + गाथा: मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति: प्रत सूत्रांक [१५२] गाथा: प्रज्ञप्तानि?, गौतम ! पञ्चदश नामधेयानि प्रज्ञप्तानि, तद्यथा-प्रथमः पूर्वाङ्गो द्वितीयः सिद्धमनोरमस्तृतीयः मनोहरः चतुर्थों यशोभद्रः पञ्चमो यशोधरः षष्ठः सर्वकामसमृद्धः सप्तम इन्द्रमूर्द्धाभिषिकोऽष्टमः सौमनसो नवमो धनञ्जयः । दशमोऽर्थसिद्धः एकादशोऽभिजातो द्वादशोऽत्यशनः त्रयोदशः शतञ्जयः चतुर्दशोऽग्निवेश्म पञ्चदश उपशम इति दिव18 सानां भवन्ति नामधेयानि इति। सम्प्रत्येषां दिवसानां पञ्चदश तिथीः पिपृच्छिषुराह-एतेसि ण'मित्यादि, एतेषा-अन-15 न्तरोक्तानां पञ्चदशानां दिवसानां भदन्त! कति तिथयः प्रज्ञप्ताः?, गौतम! पञ्चदश तिथयः प्रज्ञप्ताः, तद्यथा-नन्दो ॥३|| भद्रो जयस्तुच्छोऽन्यत्र रिक्तः पूर्णः, अत्र तिथिशब्दस्य पुंसि निर्दिष्टतया नन्दादिशब्दानामपि पुंसि निर्देशः, ज्योति | करण्डकसूर्यप्रज्ञप्तिवृत्यादी तु नन्दा भद्रा जया इत्यादिखीलिङ्गनिर्देशन संस्कारो दृश्यते, सच पूर्णः पञ्चदश तिथ्या-1 IS|| मकस्य पक्षस्य पञ्चमी इति रूढः, एतेन पञ्चमीतः परेषां षट्यादितिथीना नन्दादिक्रमेणैव पुनरावृत्तिर्दर्शिता, तथैव ॥ सूत्रे आह-पुनरपि नन्दः भद्रः जयः तुच्छः पूर्णः, स च पक्षस्य दशमी, अनेन द्वितीया आवृत्तिः पर्यवसिता, पुनरपि । नन्दः भद्रः जयः तुच्छः पूर्णः, स च पक्षस्य पञ्चदशी, उक्कमर्थं निगमयति-एवमुक्तरीत्या आवृत्तित्रयरूपया एते अनन्तरोक्ता नन्दाद्याः पंच त्रिगुणाः पञ्चदशसंख्याकास्तिथयः सर्वेषां-पश्चदशानामपि दिवसानां भवन्ति, एताश्च दिव-1 सतिथय उच्यन्ते, आह-दिवसतिथ्योः कः प्रतिविशेषो येन तिथिप्रश्नसूत्रस्य पृथग्विधानं १, उच्यते, सूर्यचारकृतो दिवसः स च प्रत्यक्षसिद्ध एव, चन्द्रचारकृता तिथिः, कथमिति चेत् ?, उच्यते, पूर्वपूर्णिमापर्यवसानं प्रारभ्य द्वाप दीप अनुक्रम [२८५ -२९८] ~986~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy