________________
आगम
(१८)
“जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [१], -----
------ मूलं [६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति" मूलं एवं शान्तिचन्द्र विहित वृत्ति:
प्रत
सूत्रांक
दीप अनुक्रम [६]
eeeeeeeeesekese
शुभफलानां इह किशिदशुभफलमपि इन्द्रियमतिविपर्यासात शुभफलमाभाति ततस्तात्त्विकथभफलप्रतिपत्त्यर्थमस्यैव पर्यायमाह-कल्याणानां-तत्त्ववृत्त्या तथाविधविशिष्टफलदायिनां अथवा कल्याणानां-अनर्थोपशमकारिणां कल्याणकल्याणरूपं फलविपाक पचणुभवमाणा' प्रत्येकमनुभवन्तो विहरन्ति-आसते । तदेवं पद्मवरवेदिकाया बहिःस्थितवनखण्डवक्तव्यतोक्ता, सम्प्रति तस्या पवास्थितवनखण्डवक्तव्यतामभिधित्सुराह-तीसे णं जगईए' इत्यादि, तस्या जगत्या उपरि पद्मवरवेदिकाया अन्तर्मध्ये यः प्रदेशः एतस्मिन् महानेको बनखण्डः प्रज्ञप्तः, देशोने द्वे योजने विष्कम्भेन वेदिका-पद्मवरवेदिका तस्याः समकातुल्यः परिक्षेपेण, अयं भावः-पद्मवरवेदिकाया यावान् (तावान् ) अस्यापि, पद्मवरवेदिकाबहिःप्रदेशात् अन्तः पंचधनुःशतागमने यत् परिक्षेपन्यूनत्वं तन्न विवक्षितमल्पत्वादिति, 'किण्हे'त्ति कृष्णो यावदितिपदेन च बहिर्वनखण्डवदविशेषेण वनखण्डवर्णको ग्राह्यः, नवरं तृणविहीनो ज्ञातव्यः, अत्र तृणजन्यः | | शब्दोऽपि तृणशब्देनाभिधीयते उपचारादतस्तृणशब्दविहीनों ज्ञातव्यः, उपलक्षणत्वादस्य मणिशब्दविहीनोऽपि, पद्मवरवेदिकान्तरिततया तथाविधः वाताभावतो मणीनां तृणानां चाचलनेन परस्परं संघर्षाभावात् शब्दाभावः, उपपन्नश्चायमर्थः, जीवाभिगमसूत्रवृत्त्योस्तथैव दर्शनादिति । सम्पति जम्बूद्वीपस्य द्वारसंख्यामरूपणार्थमाहजंबुद्दीवस्स णं भंते ! दीवस्स का दारा पण्णत्ता, गो०। चत्तारि दारा पं०, ०-विजए १ वेजयंते २ जयंते ३ अपराजिए ४, एवं चत्वारिवि वारा सरापहाणिमा भाणियवा (सूत्र ७) कहिणं मंते! जंबुद्धीवस्स दीवस्स विजए णामं दारे पण्णते ?, गो०
~ 96~