________________
आगम
(१८)
प्रत
सूत्रांक
[१३६
-१३८]
दीप
अनुक्रम [२६३
-२६५]
“जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्तिः)
वक्षस्कार [७],
मूलं [१३६- १३८]
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१८], उपांग सूत्र [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्तिः
कालसमापनात्, अथ तद्भदन्त ! स्वविषयं स्वोचितं क्षेत्रं गच्छतः उत अविषयं वा स्वानुचितमित्यर्थः, गौतम ! | स्वविषयं स्पृष्टावगाढनिरन्तरावगाढस्वरूपं गच्छतः न अविषयं - अस्पृष्टानवगाढपरम्परावगाढक्षेत्राणां गमनायोग्यत्वात्, तद्भदन्त ! आनुपूर्व्या क्रमेण यथासन्नं गच्छतः उत अनानुपूर्व्या क्रमेणानासन्नमित्यर्थः, सूत्रे द्वितीया तृतीयार्थे, गौतम ! आनुपूर्व्या गच्छतः नानानुपूर्व्या व्यवस्थाहानेः, प्रागुक्तमेव दिक्प्रश्नं व्यक्त्या आह-तद्भदन्त ! किमेकदिग्विषयकं क्षेत्रं गच्छतः यावत् षदिग्विषयकं ?, गौतम ! नियमात् पदिशि, तत्र पूर्वादिषु तिर्यग्दिक्षु उदितः सन् स्फुटमेव गच्छन् दृश्यते, ऊर्ध्वाधोदिग्गमनं च यथोपपद्यते तथा प्राग्दर्शितं । सम्प्रत्येतदतिदेशेनावभासनादि| सूत्राण्याह--' एवं ओभासेंति' इत्यादि, 'एव'मिति गमनसूत्रप्रकारेण अवभासयत :- ईषदुद्योतयतः, यथा स्थूरतरमेव दृश्यते, तमेव प्रकारमीषदर्शयति-तद्भदन्त ! क्षेत्रं स्पृष्टं -सूर्यस्तेजसा व्याप्तं अवभासयतः उतास्पृष्टं ?, भगवानाह -- स्पृष्टं नास्पृष्टं, दीपादिभास्वरद्रव्याणां प्रभाया गृहादिस्पर्श पूर्वक मेवावभासकत्वदर्शनात् एवं स्पृष्टपदरीत्या आहार| पदानि - चतुर्थोपाङ्गगताष्टाविंशतितमपदे आहारग्रहणविषयकानि पदानि द्वाराणि नेतव्यानि तद्यथा--'पुट्ठो' इत्यादि, प्रथमतः स्पृष्टविषयं सूत्रं, ततोऽवगाढसूत्रं ततोऽणुवादरसूत्रं तत ऊर्ध्वाधःप्रभृतिसूत्रं तत आई इति उपलक्षणमेतत् | आदिमध्यावसानसूत्रं ततो विषयसूत्रं तदनन्तरमानुपूर्वीसूत्रं ततो यावत् नियमात् षड्दिशीति सूत्रं, अत्र यथासम्भवं विपक्षसूत्राण्युपलक्षणाद् ज्ञेयानि अत्र चोर्ध्वादिदिग्भावना सूत्रकृत् स्वयमेव वक्ष्यति, एवमुद्योतयतो-भृशं
Fir P&Permalise City
~924~