________________
आगम
(१८)
प्रत
सूत्रांक
[१३६
-१३८]
दीप
अनुक्रम
[२६३
-२६५]
“जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्तिः)
वक्षस्कार [७],
मूलं [१३६- १३८]
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१८], उपांग सूत्र [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्तिः
श्रीजम्बद्वीपशान्तिचन्द्री
या वृत्तिः
॥४६०॥
तोऽधिकविषयत्वात् ततः प्रश्नयति-तद्भदन्त ! स्पृष्टं क्षेत्रं अवगाढं-सूर्यविम्वेनाश्रयीकृतं अधिष्ठितमित्यर्थः उतानवगाढं तेनानाश्रयीकृतं नाधिष्ठितमित्यर्थः, भगवानाह - गौतम ! अवगाढं क्षेत्रं गच्छतः नानवगाढं, आश्रितस्यैव त्यजनयोगात्, अथ यद्भदन्त ! अवगाढं तदनन्तरावगाढं अव्यवधानेनाश्रयीकृतं उत परम्परावगाढं व्यवधानेनाश्रयीकृतं ?, | भगवानाह - गौतम! अनन्तरावगाढं न पुनः परम्परावगाढं, किमुक्तं भवति ? - यस्मिनाकाशखण्डे यो मण्डलावयवो - व्यवधानेनावगाढः स मण्डलावयवस्त मेवाकाशखण्डं गच्छति न पुनरपरमण्डलावयवावगाढं तस्य व्यवहितत्वेन परम्परावगाढत्वात् तच्चाल्पमनल्पमपि स्यादित्याह तद्भदन्त ! अणुं गच्छतः वादरं वा ?, गौतम ! अण्वपि सर्वाभ्यन्तर| मण्डल क्षेत्रापेक्षया बादरमपि सर्ववाह्यमण्डलक्षेत्रापेक्षया, तत्तच्चक्रवालक्षेत्रानुसारेण गमनसम्भवात्, गमनं च ऊर्ध्वाध स्तिर्यग्गतित्रयेऽपि सम्भवेदिति प्रश्नयति-तद्भदन्त ! क्षेत्रमूर्ध्वमधस्तिर्यग्वा गच्छतः १, गौतम ! ऊर्ध्वमपि तिर्यगण्यधोऽपि, ऊर्ध्वाधस्तिर्यक्त्वं च योजनैकषष्टिभागरूपचतुर्विंशतिभागप्रमाणोत्सेधापेक्षया द्रष्टव्यं, अन्यथा 'जाव नियमा छद्दिसि' इति चरमसूत्रेण सह विरोधः स्यात्, इदं च व्याख्यानं प्रज्ञापनोपाङ्गगतैकादश भाषापदाष्टाविंशतितमाहारपदगतोर्ध्वाधस्तिर्यग्विषयक निर्वचन सूत्रव्याख्यानुसारेण कृतमिति बोध्यं, गमनं च क्रिया सा च बहुसामयिकत्वात्रिका| लनिर्वर्त्तनीया स्यादित्यादिमध्यादिप्रश्नः, तद्भदन्त ! किमादौ गच्छतः किं मध्ये उत पर्यवसाने वा ?, भगवानाह - गौतम! षष्टिमुहूर्तप्रमाणस्य मण्डलसंक्रमकालस्यादावपि मध्येऽपि पर्यवसानेऽपि वा गच्छतः, उक्तप्रकारत्रयेण मंडल
For P&Praise Cinly
~923~
अवक्षस्कारे दूरादिदर्शनं क्षेत्रमादिः क्रि
या सू. १३६-१३८
॥४६०॥