SearchBrowseAboutContactDonate
Page Preview
Page 922
Loading...
Download File
Download File
Page Text
________________ आगम (१८) प्रत सूत्रांक [१३६ -१३८] दीप अनुक्रम [२६३ -२६५] वक्षस्कार [७], मूलं [१३६- १३८] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१८], उपांग सूत्र [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्तिः श्रीजम्बू द्वीपशान्तिचन्द्री या वृतिः ॥४५९॥ “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्तिः) सर्वत्र उक्तकालेषु समौ उच्चत्वेन, अत्रापि काकुपाठात् प्रश्नावगतिः, भगवानाह - तदेव यद्भवता मां प्रति पृष्टं यावदुच्चत्वेनेति, सर्वत्र - उद्गमनमुहूर्त्तादिषु समौ समव्यवधानावुचवेन समभूतलापेक्षयाऽष्टौ योजनशतानीतिकृत्वा, न हि सतीं जनप्रतीतिं वयमपलपाम इति भगवदुक्तमेवानुवदन्नत्र विप्रतिपत्तिबीजं प्रष्टुमाह- 'जइ णमित्यादि, प्रश्नसूत्रं स्पष्टं, उत्तरसूत्रे गौतम! लेश्यायाः - सूर्यमंडलगततेजसः प्रतिघातेन दूरतरत्वादुद्गमनदेशस्य तदप्रसरणेनेत्यर्थः उद्गमनमुहूर्त्ते दूरे च मूले च दृश्यते, लेश्याप्रतिघाते हि सुखदृश्यत्वेन स्वभावेन दूरस्थोऽपि सूर्य आसन्नप्रतीतिं जनयति एवमस्तमयन मुहूत्र्त्तेऽपि व्याख्येयं द्वयोः समगमकत्वात्, मध्यान्तिकमुहूर्त्ते तु लेश्याया अभितापेन- प्रतापेन सर्वतस्तेजः प्रतापेनेत्यर्थः, मूले च दूरे च दृश्येते, मध्याह्ने ह्यासन्नोऽपि सूर्यस्तीत्रतेजसा दुर्दर्शत्येन दूरमतीतिं जनयति, | एवमेवासन्नत्वेन दीसलेश्याकत्वं दिनवृद्धिधम्र्म्मादयो भावा दूरतरत्वेन मन्दलेश्याकत्वं दिनहानिशीतादयश्च वाच्याः, उद्गमनास्तमयनादीनि च ज्योतिष्काणां गतिप्रवृत्ततया जायन्ते इति तेषां गमनप्रश्नायैकादर्श द्वारमाह- 'जम्बुदीवे ण'मित्यादि, जम्बूद्वीपे भदन्त । द्वीपे सूर्यो किमतीतं गतिविषयीकृतं क्षेत्रं गच्छतः- अतिक्रामतः उत प्रत्युत्पन्नं वर्त्तमानं गतिविषयीक्रियमाणं उत अनागतं गतिविपयीकरिष्यमाणं एतेन इह च यदाकाशखण्डं सूर्यः स्वतेजसा व्याप्नोति तत्क्षेत्रमुच्यते तेनास्यातीतेत्यादिव्यवहारविषयत्वं नोपपद्यते अनादिनिधनत्वादिति शङ्का निरस्ता, भगवानाह — गौतम ! नोशब्दस्य निषेधार्थत्वान्नातीतं क्षेत्रं गच्छतः, अतीतक्रियाविषयीकृते वर्त्तमानक्रियाया एवासम्भवात् प्रत्युत्पन्नं गच्छतः Ja Ecutor intematonal For P&Praise Cinly ~921 ~ ৩৩৬ अक्षस्कारे दूरादिदर्शनं क्षेत्र - नादिः क्रि या सु. | १३६-१२८ ॥४५९॥
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy