________________
आगम
(१८)
प्रत
सूत्रांक
[१३४]
दीप
अनुक्रम
[२५९]
“जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र- ७ (मूलं + वृत्तिः)
वक्षस्कार [७],
मूलं [१३४]
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१८], उपांग सूत्र [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्तिः
श्रीजम्बूद्वीपशान्तिचन्द्री - या वृत्तिः
॥४५१ ॥
षष्टिभागाभ्यामधिका रात्रिर्भवति, अत्रोपपत्तिर्यथा - अष्टादशमुहूर्त्ते दिवसे द्वादश ध्रुवमुहर्त्ताः षट् चरमुहूर्त्ताः ते च मण्डलानां त्र्यशीत्यधिकशतेन वर्द्धन्ते चापवर्द्धन्ते, ततोऽत्र त्रैराशिकावतारः- यदि मण्डलानां व्यशीत्यधिकशतेन षट् मुहूर्त्ताः वर्द्धन्ते चापवर्द्धन्ते तदा एकेन मण्डलेन किं वर्द्धते चापवर्द्धते ?, स्थापना यथा १८३ । ६।१ अत्रान्त्यराशिना एककलक्षणेन मध्यराशिः पटुलक्षणो गुण्यते, गुणिते च 'एकेन गुणितं तदेव भवतीति षडेव स्थितास्ते चादिराशिना भज्यन्ते अल्पत्वाद् भागं न प्रयच्छन्तीति भाग्यभाजकराश्योस्त्रि केणापवर्त्तना कार्या, जात उपरितनो राशिद्विकरूपः अधस्तन एकषष्टिरूपः आगतं द्वावेकषष्टिभागौ मुहूर्त्तस्य अतो दिवसेऽपवर्द्धते रात्रौ च वर्द्धते इति, एवमग्रेऽपि करणभावना कार्या । अथाप्रेतनमण्डलगते दिनरात्रि वृद्धिहानी पृच्छन्नाह - ' से शिक्खममाणे' इत्यादि, अथ निष्क्रामन् सूर्यो दक्षिणायनसत्के द्वितीये अहोरात्रे अत्र यावच्छब्दाद् 'अब्भंतरतचं मंडल उवसंकमित्ता' इति | ज्ञेयं, सर्वाभ्यन्तरमण्डलापेक्षया तृतीयं मण्डलमुपसङ्क्रम्य चारं चरति तदा किंप्रमाणो दिवसः किंप्रमाणा रात्रिर्भवति ?, | गौतम ! तदा अष्टादशमुहूर्त्तप्रमाणो द्वाभ्यां पूर्वमण्डलसत्काभ्यां द्वाभ्यां च प्रस्तुतमण्डलसत्काभ्यामित्येवं चतुर्भिर्मुहर्त्ते| कषष्टिभागैरुनो दिवसो भवति द्वादशमुहर्त्ता उक्तप्रकारेणैव चतुर्भिर्मुहूर्त्तकषष्टिभागैरधिका रात्रिर्भवति, उक्तातिरिक्त| मण्डलेष्वतिदेशमाह-' एवं खलु एएण' मित्यादि, एवं मण्डलत्रयदर्शितरीत्या खलु निश्चितमेतेन - अनन्तरोकेनोपायेनप्रतिमण्डलं दिवसरात्रिसत्कमुहूर्त्ते कप ष्टिभागद्वय वृद्धिहानिरूपेण निष्क्रामन्-दक्षिणाभिमुखं गच्छन् सूर्यस्तदनन्तरा
For P&False Cinly
severestse
~905~
अवक्षस्कारे दिनरात्रि
मानं सू.
१३४
॥४५१॥