________________
आगम
(१८)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम [-]
वक्षस्कार [-],
मूलं [-]
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१८], उपांग सूत्र [७] "जम्बूद्वीप-प्रज्ञप्ति" मूलं एवं शान्तिचन्द्र विहित वृत्तिः
June(im
“जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र- ७ (मूलं+वृत्तिः)
प्रास्ताविक कथनं
विधीयत इति नानौचितीलेशोऽपीति सर्वं सुस्थं इति शास्त्रप्रस्तावना ॥
तस्य चानुयोगस्य फलादिद्वारप्ररूपणतः प्रवृत्तिर्भवति, यत उक्तम्- " तस्स फलजोगमंगलसमुदायत्था तहेव दाराई । तम्भेयनिरुत्तिकमपओयणाई च वच्चाई ॥१॥” ति, तत्र प्रेक्षावतां प्रवृत्तये तस्य - अनुयोगस्य फलमवश्यं वाच्यं, अन्यवाऽस्य निष्फलत्वमाकलय्य व्याख्यातारः श्रोतारश्च कण्टकशाखामर्द्दन इव नात्र प्रवर्त्तेरनिति, तच्च द्विधा- कर्तुः श्रोतुश्च, | एकैकमपि द्विधा - अनन्तरं परम्परं च तत्र कर्तुरनन्तरं द्वीपसमुद्रादिसंस्थानपरिज्ञानेऽतिपरिकर्मितमतिकत्वेन स्पष्टतया यथासंभवं संस्मरणात् स्वात्मनः सुखेनैव संस्थानविचयाभिधान धर्मध्यानसमवाप्तिर्मन्दमेधसामनुग्रहश्व, श्रोतुः पुनर्जम्बूद्वीपवर्त्तिपदार्थपरिज्ञानं, परम्परं तु द्वयोरपि मुक्त्यवातिः, यदाह - "सर्वज्ञोतोपदेशेन यः सत्त्वानामनुग्रहम् करोति | दुःखतष्ठानां, स प्राप्नोत्यचिराच्छिवम् ॥ १॥” तथा “सम्यग्भावपरिज्ञानाद्विरक्ता भवतो जनाः । क्रियासक्ता ह्यविज्ञेन, गच्छन्ति परमां गतिम् ॥२॥” १, तथा योगः-सम्बन्धो वाच्यः, तेन हि ज्ञातेन फलव्यभिचारमनाशङ्कमानाः प्रेक्षावन्तः प्रवर्त्तन्त इति, स द्विधा - उपायोपेयभावलक्षणो गुरुपर्वक्रमलक्षणश्च तत्र आद्यस्तर्कानुसारिणः प्रति, अनुयोग उपायोऽर्थावगमादि चोपेयं, स च फलाभिधानादेवाभिहितः, अन्यश्च केवलश्रद्धानुसारिणः प्रति, स चैवम्-अर्थतो भगवता वर्द्धमानस्वामिना जम्बूद्वीपप्रज्ञप्तिरुक्ता सूत्रतो गणधरैर्द्वादशायामुपनिबद्धा, ततोऽपि मन्दमेधसामनुग्रहाय सातिशयश्रुतधारिभिः षष्ठादङ्गादाकृष्य पृथगध्ययनत्वेन व्यवस्थापिता, अमुमेव च सम्बन्धमनुविचिन्त्य सूत्रकृदुपोद्घातमाधास्यति
Fur Fate & Cy
~8~
Patient ९८१६९०९६esesenesecseene
maryay