________________
आगम
(१८)
प्रत
सूत्रांक
[१२३]
दीप
अनुक्रम
[२४४]
“जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र- ७ (मूलं+वृत्तिः)
वक्षस्कार [५],
मूलं [ १२३]
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१८], उपांग सूत्र [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्तिः
श्रीजम्पूद्वीपशान्विचन्द्री - या इति
॥४२३॥
यत्रैव भगवतस्तीर्थकरस्य जन्मनगरं यत्रैव च जन्मभवनं यत्रैव च तीर्थकरमाता तत्रैवोपागच्छतीति उपागत्य च भगवन्तं तीर्थकरं मातुः पार्श्वे स्थापयति स्थापयित्वा च तीर्थकरप्रतिविम्बं प्रतिसाहरति प्रतिसंहृत्य चावस्वापिनीं प्रतिसंहरति प्रतिसंहृत्य चैकं महत् क्षोमयोः - दुकूलयोर्युगलं कुण्डलयुगलं (च) भगवतस्तीर्थकरस्योच्छीर्षकभूले स्थापयति, स्थापयित्वा च एकं महान्तं श्रीदाम्नां - शोभावद्विचित्ररत्नमालानां गण्डं-गोलं वृत्ताकारत्वात् काण्डं वा-समूहः श्रीदामगण्डं श्रीदामकाण्डं वा भगवतस्तीर्थकरस्योल्लोचे निक्षिपति अवलम्बयतीति क्रियायोगः, 'तपनीये' त्यादि पदत्रयं प्राग्वत्, नानामणिरत्नानां ये विविधहारार्द्धहारास्तैरुपशोभितः समुदाय: - परिकरो येषां ते तथा, अयमर्थः श्रीमत्यो | रत्नमालास्तथा प्रथयित्वा गोलाकारेण कृता यथा चन्द्रगोपके मध्यझुम्बनकतां प्रापिताः हारार्द्धहाराञ्च परिकरझुम्बनकताम् । उक्तस्वरूपझुम्बनकविधाने प्रयोजनमाह - 'तण्ण' मिति प्राग्वत्, भगवांस्तीर्थकरोऽनिमिषया-निर्निमिषया दृष्ट्या अत्यादरेण प्रेक्षमाणः २ सुखसुखेनाभिरममाणो - रतिं कुर्वस्तिष्ठति । अथ वैश्रमणद्वारा शक्रस्य कृत्यमाह - 'तए ण' मित्यादि, ततः स शक्रो देवेन्द्रो देवराजा वैश्रमणं उत्तर दिक्पालं देवं शब्दयति, शब्दयित्वा चैवमवादीत् - क्षिप्र मेव भो देवानुप्रिय ! द्वात्रिंशतं हिरण्यकोटी: द्वात्रिंशतं सुवर्णकोटी: द्वात्रिंशतं नन्दानि वृत्तलोहासनानि द्वात्रिंशतं | भद्राणि-भद्रासनानि सुभगानि - शोभनानि सुभगयौवनलावण्यानि रूपाणि-रूपकाणि यत्र तानि तथा, सूत्रे पदव्यत्यय | आर्षत्वात्, चः समुच्चये, भगवतस्तीर्थकरस्य जन्मभवने संहर आनयेत्यर्थः संहृत्य च एनामाज्ञप्तिं प्रत्यर्पय, ततः स वैश्रमणो
For P&False Cnly
~ 849~
CRCRCRCRC
५वक्षस्कारे जिनजन्ममहे कृताभिषेकजिनानयनं सू. १२३
॥४२३॥