________________
आगम
(१८)
प्रत
सूत्रांक
[१२१]
दीप
अनुक्रम [२४०]
“जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र- ७ (मूलं+वृत्तिः)
वक्षस्कार [५],
मूलं [१२१]
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१८], उपांग सूत्र [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्तिः
श्रीजम्बूद्वीपशान्तिचन्द्री - या वृत्तिः
॥४१४ ॥
अप्येककाः चतुर्विधं नाव्यं नृत्यन्ति तद्यथा-अञ्चितं द्रुतं आरभटं भसोलमिति, अप्येककाश्चतुर्विधमभिनयमभिनयन्ति, तद्यथा— दार्शन्तिकं प्रातिश्रुतिकं सामान्यतो विनिपातिकं लोकमध्यावसानिकमिति, एते नाव्यविधयोऽभिनय विधयश्च भरतादिसङ्गीतशास्त्रज्ञेभ्योऽवसेयाः, अप्येकका द्वात्रिंशद्विधं अष्टमाङ्गलिक्यादिकं दिव्यं नाव्यविधिमुपदर्शयन्ति, सच | येन क्रमेण भगवतो वर्द्धमानस्वामिनः पुरतः सूर्याभदेवेन भावितो - राजप्रश्नीयोपाने दर्शितस्तेन क्रमेणोपदर्श्यते, तत्र | प्रारिप्सितमहानाट्यरूपमङ्गल्य वस्तुनिर्विघ्नसिद्ध्यर्थमादौ मङ्गल्यनाट्यं, तथाहि - स्वस्तिक श्रीवत्सनन्द्यावर्त्तवर्द्धमानकभद्रास| नकलश मत्स्य दर्पण रूपाष्टमाङ्गलिक्यभक्तिचित्रं, अत्राष्टपदानां व्याख्या प्राग्यत्, नवरं तेषां भक्त्या विच्छित्त्या चित्रं-आ| लेखनं तत्तदाकारा विर्भावना यत्र तत्तथा तदुपदर्शयन्तीत्यर्थः, अयमर्थः यथा हि चित्रकर्मणि सर्वे जगद्वर्त्तिनो भावाश्चित्र|बित्वा दर्श्यन्ते तथा तेऽभिनयविषयीकृत्य नाव्येऽपि, अभिनयः - चतुर्भिराङ्गिकवाचिकसास्विकाहार्यभेदैः समुदितैरसमुदितैर्वाऽभिनेतव्यवस्तुभावप्रकटनं, प्रस्तुते चाङ्गिकेन नाट्यकर्तॄणां तत्तन्मङ्गलाकारतयाऽवस्थानं हस्तादिना तत्तदाकारदर्शनं वा वाचिकेन प्रबन्धादौ तत्तन्मङ्गलशब्दोच्चारणं सभासदां मनसि रक्तिपूर्वकं तत्तन्मङ्गलस्वरूपाविर्भावनं मङ्गलनाव्यमि - ति १, अथ द्वितीयं नाट्यं, आवर्त्तप्रत्यावर्त्तश्रेणिप्रश्रेणिस्वस्तिकपुष्यमाणवर्द्धमानकमत्स्याण्डकमकराण्डकजारमारपु|प्पावलिपद्मपत्र सागर तरङ्गवासन्तील तापद्मलताभक्तिचित्रं, तत्र सृष्टिक्रमेण भ्रमद्भ्रमरिकादानैर्नर्त्तनमावर्त्तस्तद्विपरीत| क्रमेण भ्रमरिकादानैर्नर्त्तनं प्रत्यावर्त्तः श्रेण्या-पङ्क्त्या स्वस्तिकाः श्रेणिस्वस्तिकाः, ते चैकपङ्किगता अपि स्युरिति
For Pre & Personalise Cnly
esesseseea
~ 831~
५वक्षस्कारे
जन्ममहे अच्युताभियोगः सू. १२१
॥४१४ ॥