________________
आगम
(१८)
प्रत
सूत्रांक
[११७]
दीप
अनुक्रम
[२२९]
“जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्ति:)
वक्षस्कार [५],
मूलं [११७]
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१८], उपांग सूत्र [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्तिः
श्रीजम्पूद्वीपशान्तिचन्द्री - या वृत्तिः
॥४०३॥
पूर्णसामग्रीकतया प्रगुणानि सर्वालङ्कारविभूषितानि पञ्चानीकानि पञ्चानीकाधिपतयश्च पुरतो यथानुपूर्व्या सम्प्रस्थितानि, 'तयणन्तरं च ण' मित्यादि, तदनन्तरं बहवः आभियोगिका देवाश्च देव्यश्च स्वकैः स्वकैः रूपैः- यथास्व कर्मोंउपस्थितैरुत्तरवै क्रियस्वरूपैर्यावच्छन्दात्स्वकैः स्वकैः विभवैः - यथास्वकम्मोंपस्थितैर्विभवैः- सम्पत्तिभिः स्वकैर्नियोगे :- उपकरणैः शक्रं देवेन्द्रं देवराजं पुरतश्च मार्गतश्च पृष्ठतः पार्श्वतश्च उभयोः यथानुपूर्व्या-यथावृद्धक्रमेण सम्प्रस्थिताः, 'तयणन्तरं च णमित्यादि, तदनन्तरं बहवः सौधर्मकल्पवासिनो देवाश्च देव्यश्च सर्व यावत्करणादिन्द्रस्य हरिनिगमेषिणं पुरः स्वाज्ञप्तिविषयकः प्रागुक्त आलापको ग्राह्यः तेन स्वानि २ यानविमानवाहनानि आरूढाः सन्तो मार्गतश्च यावच्छध्दात् पुरतः पार्श्वतश्च शक्रस्य सम्प्रस्थिताः । अथ यथा शक्रः सौधर्मकल्पान्निर्याति तथा चाह'तए णमित्यादि, ततः स शक्रस्तेन प्रागुक्तस्वरूपेण पञ्चभिः संग्रामिकैरनीकेः परिक्षिप्तेन सर्वतः परिवृतेन यावत् पूर्वोक्तः सर्वो महेन्द्रध्वजवर्णको ग्राह्यः, महेन्द्रध्वजेन पुरतः प्रकृष्यमाणेन निर्गम्यमानेन चतुरशीत्या सामानिकस| हसैर्यावत्करणात् 'चहिं चउरासीहिं आयरक्खदेवसाहस्सीहिं' इत्यादि ग्राह्यं, परिवृतः सर्व यावद्रवेण यावकरणात् 'सव्यज्जुईए' इत्यादि प्रागुक्कं ग्राह्यं, सौधर्भस्य कल्पस्य मध्यंमध्येन तां दिव्यां देवद्धि यावच्छब्दाद् 'दिवं देवजुई दिवं देवाणुभाव' इति ग्रहः, सौधर्मकल्पवासिनं देवानामुपदर्शयन् २ यत्रैव सौधर्मकल्पस्योत्तराहो निर्याणमार्गो-निर्गमनसम्वन्धी पन्थास्तत्रैवोपागच्छति, यथा वरयिता नागराणां विवाहोत्सव स्फातिदर्शनार्थं राजपथे
For P&False Cnly
~809~
tresesese
वक्षरकारे
जन्ममहे शक्रेन्द्राग
मः सू.
११७
॥४०३॥