________________
आगम
(१८)
प्रत
सूत्रांक
[११३]
+
**$$$
गाथा
दीप
अनुक्रम [२१५
-२१७]
“जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्ति:)
वक्षस्कार [५],
मूलं [११३] + गाथा
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१८], उपांग सूत्र [७] "जम्बूद्वीप-प्रज्ञप्ति" मूलं एवं शान्तिचन्द्र विहित वृत्तिः
श्रीजम्बूद्वीपशान्तिचन्द्री - या वृत्तिः
॥३९०॥
अपि ऊर्ध्वलोकवास्तव्या अष्टौ दिक्कुमारीमहत्सरिकाः पुष्पवद्दलए विबित्ता इत्यादिकं योजनपरिमण्डलान्तं प्राग्वद् व्याख्येयं वाक्ययोजना तु योजनपरिमण्डलं यावत् दशार्द्धवर्णस्य कुसुमस्य वर्षे वर्षन्तीति, कथंभूतस्य कुसुमस्य ? - 'जलजस्थलजभासुरप्रभूतस्य' जलजं पद्मादि स्थलजं - विच किलादि भास्वरं दीप्यमानं प्रभूतं च- अतिप्रचुरं ततः कर्मधारयः भास्वरं च तत् प्रभूतं च भास्वरप्रभूतं जलस्थलजं च तत् भास्वरप्रभूतं च तत्तथा तथा 'वृन्तस्थायिनः ' वृन्तेन-अधोभागवर्त्तिना तिष्ठतीत्येवंशीलस्य, तथा, वृन्तमधोभागे पत्राण्युपरीत्येवं स्थानशील स्येत्यर्थः कथंभूतं वर्ष - | जाम्बवधिक उत्सेधो जानूत्सेधस्तस्य प्रमाणं- द्वात्रिंशदंगुललक्षणं तेन सदृशी मात्रा यस्य स तथा तं द्वात्रिंशदंगुठानि | चैवं चरणस्य चत्वारि जंघायाश्चतुर्विंशतिः जानुनश्चत्वारीति, एवमेव सामुद्रिके चरणादिमानस्य भणनात्, वर्षित्वा च | कियत्पर्यन्तोऽयं 'एव'मित्यादिवाक्यसूचित सूत्रसंग्रह इत्याह-- यावत् 'कालागुरुपवर ति अत्र यावच्छन्दोऽवधिवाची | 'जाब सुरबराभिगमणजोगं' ति अत्र यावत्करणात् कुंदुरुक्कतुरुकडतधूवमघमघन्तगंधुदु आभिरामं सुगंधवरगन्धिअं गन्धवट्टिभूअं दिवं ति पर्यन्तं सूत्रं ज्ञेयं, तत्कालागुरुप्रभृतिधूपधूपितं धूपालापकव्याख्या प्राग्वत्, अत एव 'सुरवराभिगमनयोग्यं' सुरवरस्य- इन्द्रस्याभिगमनाय - अवतरणाय योग्यं कुर्वन्ति कृत्वा च यंत्रैव भगवांस्तीर्थकरस्तीर्थकर माता च तत्रैवोपागच्छन्ति, उपागत्य च यावच्छब्दात् 'भगवओ तित्थयरस्स तित्थयरमायाए य अदूरखामंते' इति ग्राह्यं, आगायन्त्यः परिगायन्त्यस्तिष्ठन्तीति । अथ रुचकवासिनी दिक्कुमारीवकव्ये प्रथमं पूर्वरुचकस्थानामष्टानां वक्तव्यमाह -
For P&Praise City
~783~
पवक्षस्कारे ऊर्ध्वलोक
दिकुमार्यु
त्सवः स. ११३
॥ ३९०॥