________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [४], ------
--------- मूलं [१११] + गाथा मुनि दीपरत्नसागरेण संकलित......आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति” मूलं एवं शान्तिचन्द्र विहित वृत्ति:
प्रत सूत्रांक
[१११]
प्रज्ञप्तः प्राचीनप्रतीचीनायतः उत्तरदक्षिणयोर्विस्तीर्णः, एवमुक्तानुसारेण यैव महाहिमवद्वर्षधरवक्तव्यता सैव रुक्मिशाणोऽपि पर दक्षिणतो जीवा उत्तरस्यां धनुःपृष्टं अवशेष-व्यासादिकं तदेव-द्वितीयवर्षधरप्रकरणोक्कमेव, द्वयोः परस्परं | समानत्वात् , महापुण्डरीकोऽत्र द्रहो महापद्मद्रहतुल्या, अस्माञ्च निर्गता दक्षिणतोरणेन नरकान्ता महानदी नेतव्या,
अत्र च का नदी निदर्शनीयेत्याह-'जहा रोहिय'त्ति यथा रोहिता 'पुरथिमेणं गच्छति पूर्वेण गच्छति समुद्रमिति | शेषः, यथा रोहिता महाहिमवतो महापद्मद्रहतो दक्षिणेन प्रव्यूढा सती पूर्वसमुद्रं गच्छति तथैषाऽपि प्रस्तुतवर्षधराइक्षिणेन निर्गता पूर्वेणाब्धिमुपसर्पतीति भावः, रूप्यकूला उत्तरेण-उत्तरतोरणेन निर्गता नेतन्या, यथा हरिकान्ता हरिवर्षक्षेत्रवाहिनी महानदी 'पच्छत्थिमेणं गच्छइ'त्ति पश्चिमाब्धि गच्छति, अथ नरकान्तायाः समानक्षेत्रवर्तित्वेन
हरिकान्तायाः रूप्यकुलायास्तु रोहिताया अतिदेशो वक्तुमुचित इत्याह-अवशेष-गिरिगन्तव्यमुखमूलव्याससरित्IS सम्पदादिकं वक्तव्यं तदेवेति-समानक्षेत्रवर्तिसरित्प्रकरणोक्तमेव, तच्च नरकान्ताया हरिकान्ताप्रकरणोतं रूप्यकूला
यास्तु रोहिताप्रकरणोतं, यत्तु नरकान्ताया अतुल्यक्षेत्रवर्तिन्या रोहितया सह रूप्यकूलायास्तु हरिकान्तया सहातिदेशकथनं तत्र समानदिनिर्गतत्वं समानदिग्गामित्वं च हेतुः । अथात्र कूटवक्तव्यमाह-रुष्पिमिणमित्यादि, रुक्मिणि पर्वते भगवन् ! कति कूटानि प्रज्ञप्तानि?, गौतम ! अष्ट कूटानि प्रज्ञप्तानि, तद्यथा-प्रथमं समुद्रदिशि सिद्धायतनकूट ततो रुक्मिकूट-पञ्चमवर्षधरपतिकूटं रम्यकूट-रम्यकक्षेत्राधिपदेवकूटं नरकान्तानदीदेवीकूटं बुद्धिकूट-8
ecemesesesese
गाथा
दीप अनुक्रम [२०९-२११]
~762~