________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [४], -----
--------- मूलं [१०३] + गाथा मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति:
प्रत सूत्रांक [१०३]
गाथा:
वज्रमयत्वं तृतीयकाण्डे जाम्बूनदमयत्वं च भणिष्यमाणं विरुणद्धि, शेष प्राग्वत् । अथात्र पद्मवरचेदिकाद्याह| 'से णं एगाए'इत्यादि, व्यक्तं, अत्र चारोहेऽवरोहे च इष्टस्थाने विस्तारादिकरणानि सूत्रेऽनुक्तान्यपि उत्तरग्रन्ये बहूपयोगानीति दयन्ते-तत्र कन्दादारोहे करणमिदं-ऊर्ध्वगतस्य यत्र योजनादौ विस्तारजिज्ञासा तस्मिन् योजनादिके | एकादशभिर्भक्त यल्लब्धं तस्मिन् कन्दविस्तारादपनीते यदवशिष्टं स तत्र प्रदेशे मेरुव्यासः, तथाहि-कन्दायोजनल-12] क्षमूर्ध्व गतस्त तो योजनलक्षं प्रियते तस्मिन्नेकादशभिर्भक्के लब्धानि नबतिशतानि नवत्यधिकानि योजनानां दश चैकादशभागा योजनस्य अस्मिन् कन्दव्यासात् दशयोजनसहस्राणि नवत्यधिकानि दश चैकादशभागा योजनस्येत्येवंपरिमाणादपनीयते शेष योजनसहस्र, एतावानत्र प्रदेशे मेरूपरितले व्यासः, अथवा योजनसहस्रमारूढस्ततो योजन-15 सहने एकादशभिर्भक्के लब्धानि नवतियोजनानि दश चैकादशभागा योजनस्य अस्मिन् पूर्वोक्तात् कन्दव्यासाच्छोधिते | शेष दशयोजनसहस्राणि एवमन्यत्रापि भाव्यं । अथ शिखरादवरोहे करणं, यथा मेरुशिखरादवपत्य यत्र योजनादौ विष्कम्भजिज्ञासा तस्मिन् योजनादिके एकादशभिर्भक्के बल्लब्धं तत्सहितं तत्र प्रदेसे मेरुच्यासमानं, यथा शिखरा-3 योजनलक्षमवतीर्णस्ततो लक्षे एकादशभिर्भक्के लब्धानि नपति शतानि नवत्यधिकानि दझ चैकादशभागाः अस्मिन् । योजनसहस्रप्रक्षेपे जातानि १०.९० इयान कन्दे व्यासः, अथवा शिखरानवनवतियोजनसहस्राण्यवतीर्णस्तसस्तेपामेकादशभिर्भागे हृते लब्धानि नवसहस्राणि तानि सहस्रसहितानि जातानि दशसहस्राणि एतावान् धरणीतले
दीप अनुक्रम [१९४-१९६]
~726~