________________
आगम
(१८)
प्रत
सूत्रांक
[९५]
+
गाथा:
दीप
अनुक्रम
[१७१
-१७३]
“जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र- ७ (मूलं+वृत्तिः)
वक्षस्कार [४],
मूलं [९५] + गाथा:
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१८], उपांग सूत्र [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्तिः
Jin Elem
| तथाहि - 'से केणट्टेणं भन्ते ! एवं बुच्चाइ गाहावई दीवे गाहावई दीवे ?, गोअमा ! गाहावई दीवे णं बहूई उप्पलाई, | जाब सहस्सपत्ताई गाहावईदीव समप्पभाई समवण्णाई' इत्यादि, अथास्माद्या नदी प्रवहति तामाह- 'तस्स ण'मित्यादि व्यक्तं, नवरं ग्राहा:- तन्तुनामानो जलचरा महाकायाः सन्त्यस्यामिति प्राहावती, मतुष्प्रत्यये मस्य वत्वे ङीप्रत्यये रूपसिद्धिः दीर्घत्वं चात्राकृतिगणत्वात् 'अनजिरादिबहुस्वरशरादीनां मता' (श्रीसिद्ध० अ०३पा०२ सू०७८) वित्यनेन, महानदी प्रव्यूढा सती सुकच्छमहाकच्छौ विजयौ द्विधा विभजन्ती २ अष्टाविंशत्या नदीसहस्रैः समग्रा-सहिता दक्षिणेन भागेन - मेरोर्दक्षिणदिशि शीता महानदीं समुपसर्पति, अथास्य विष्कम्भादिकमाह-'गाहावई णमित्यादि, ग्राहावती महानदी प्रवहे -ग्राहावतीकुण्ड निर्गमे मुखे - शीताप्रवेशे च सर्वत्र मुखप्रवहयोरन्यत्रापि स्थाने समा-सम| विस्तरोद्वेधा, एतदेव दर्शयति- पंचविंशत्यधिकं योजनशतं विष्कम्भेन, अर्द्धतृतीयानि योजनान्युद्वेधेन, सपादशत| योजनानां पंचाशसमभागे एतावत एव लाभात् पृथुत्वं च प्राग्वत्, तथाहि - महाविदेहेषु कुरुमेरुभद्रशालविजयवक्षस्कार मुखयनव्यतिरेकेणान्यत्र सर्वत्रान्तरनद्यः, ताश्च पूर्वापरविस्तृतास्तुल्यविस्तार प्रमाणास्तत एव तत्करणावकाशः, तत्र मेरुविष्कम्भपूर्वापर भद्रशालवनायामप्रमाणं चतुःपंचाशत्सहस्राणि विजय १६ पृथुत्वं पंचत्रिंशत्सहस्राणि चतु:| शतानि षडुत्तराणि वक्षस्कार ८ पृथुत्वं चत्वारि सहस्राणि मुखवनद्वय २ पृथुत्वं ५८४४, सर्वमीलनेन नवनवतिसहस्राणि द्वे शते पंचाशदधिके, एतज्जम्बूद्वीपविष्कम्भलक्षाच्छोध्यते शोधिते च जातं सप्तशतानि पंचाशदप्राणि, एतच्च
Fur Fate & Use Cy
~698~
www.jayy