________________
आगम
(१८)
प्रत
सूत्रांक
[८०]
दीप
अनुक्रम
[१३५]
“जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र- ७ (मूलं + वृत्तिः)
वक्षस्कार [४],
मूलं [ ८० ]
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१८], उपांग सूत्र [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्तिः
त्यादि, तस्य महापद्मद्रहस्य दाक्षिणात्येन तोरणेन रोहिता महानदी प्रव्यूढा - निर्गता सती षोडश पश्चोत्तराणि योजनशतानि पञ्च चैकोनविंशतिभागान् योजनस्य दक्षिणाभिमुखी पर्वतेन गत्वा महता घटमुखप्रवृत्तिकेन मुक्तावलिहारसंस्थितेन सातिरेकद्वियोजनशतिकेन, सातिरेकत्वं च रोहिताप्रपातकुण्डोद्वेधापेक्षया बोध्यं प्रपातेन प्रपतति, पोडशेत्यादिसङ्ख्यानयनं तु चतुः सहस्रद्विशतदशयोजनतदे को न विंशतिभागात्मक [ भागदश ] काद्भिरिव्यासात् सहस्रयोजनात्मके ग्रह| व्यासेऽपनीते सत्यद्धींकृताद्भवति, अन्यत् सर्व रोहितांशागमेन वाच्यं, अथ सा यतः प्रपतति तदास्पदं दर्शयति'रोहिआ ण'मित्यादि, प्राग्वत्, अथ यत्र प्रपतति तदाह- 'रोहिजा ण'मित्यादि, प्राग्व्याख्यातप्रायं, नवरं सविंशतिकं | योजनशतं गङ्गाप्रपातकुण्डतो द्विगुणायामविष्कम्भत्वात् त्रीणि योजनशतानि अशीत्यधिकानि किञ्चिद्विशेषोनानि, ऊनत्वं करणेन यो० ३७९ क्रोशः १ कियद्धनुरधिकस्तेन किञ्चिदूनाऽशीतिरुक्ता इत्यर्थः, परिक्षेषेणेति । अधुनाऽस्य द्वीपवक्तव्यमाह - 'तस्त्र णमित्यादि व्यक्तं, नवरं गङ्गाद्वीपतो द्विगुणायामविष्कम्भत्वात् षोडश योजनानि रोहिताद्वीपप्रमाणमित्यर्थः, 'से ण'मित्यादि, सुगमं, 'रोहिअदीव' इत्यादि, सुगमं, नवरं शेषं विष्कम्भादिकं प्रमाणं तदेव, कोऽर्थः ?अर्द्धक्रोशं विष्कम्भेन देशोनक्रोशमुच्चत्वेनेति चशब्दाद्रोहितादेवीशयनादिवर्णकोऽपि, अर्धश्च 'से केणणं भन्ते ! रोहिअदीवे' इत्यादि, सून्नावगम्यः सम्प्रति यथेयं लवणगामिनी तथाऽऽह्— 'तस्से' त्यादि, तस्य - रोहिताप्रपात कुण्डस्य दाक्षिणात्येन तोरणेन द्वारेणेत्यर्थः रोहिता महानदी प्रव्यूढा - निर्गता सती हैमवतं वर्ष आगच्छन्ती २ हैमवत क्षेत्राभि
Fur Fraternae Cy
~608~