________________
आगम
(१८)
प्रत
सूत्रांक
[७४]
दीप
अनुक्रम
[१२९]
वक्षस्कार [४],
मूलं [७४]
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१८], उपांग सूत्र [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्तिः
श्रीजम्बूद्वीपशान्तिचन्द्री - या वृचिः
॥२९४॥
“जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र- ७ (मूलं + वृत्तिः)
Jin Eben
स्मिन् योजने गते जलवृद्धिः, अथ मूलाद्योजनद्वयान्ते यदा वृद्धिर्ज्ञातुमिष्यते तदा दश धनूंषि द्विकेन गुण्यन्ते जातानि २० एतावती प्रवहादुभयपार्श्वयोजनद्विकान्ते वृद्धिः स्यात्, अस्याश्चाद्धे १०, एतावत्येकपार्श्वे वृद्धिः, एवं सर्वत्र भाव्यं । अथ गङ्गायामादीन्यन्यत्रावतारयति - ' एवं सिंधु इत्यादि, एवं सिन्ध्वा अपि स्वरूपं नेतव्यं यावत्तस्य पद्मद्रहस्य पाश्चात्येन तोरणेन सिन्धुमहानदी निर्गता सती पश्चिमाभिमुखी पश्चयोजनशतानि पर्वतेन गत्वा सिन्ध्यावर्त्तनकूटे आवृत्ता सती पञ्च योजनशतानि त्रयोविंशत्यधिकानि श्रींश्चैकोनविंशतिभागान् दक्षिणाभिमुखी पर्वतेन गत्वा | महता घटमुखप्रवृत्तिकेन यावत्प्रपातेन प्रपतति, सिन्धुमहानदी यतः प्रपतति अत्र महती जिह्विका वाच्या, सिन्धुमहानदी यत्र प्रपतति तत्र सिन्धुप्रपातकुण्डं वाच्यं तन्मध्ये सिन्धुद्वीपो वाच्योऽर्थः स एव यथा गङ्गाद्वीपप्रभाणि गङ्गाद्वीपवर्णाभानि पद्मानि तथा सिन्धुद्वीपप्रभाणि सिन्धुद्वीपवर्णाभानि पद्मानि सिन्धुद्वीप इत्युच्यते, अत्र यावत्पर्यन्तं सूत्रं वाच्यं तथाह - यावदधस्तमिस्रागुहाया इत्यादि, अत्र यावत्करणादिदं - 'तस्स णं सिन्धुप्पवायकुंडस्स दक्खिणिलेणं तोरणेणं सिन्धुमहाणई पबूढा समाणी उत्तरद्धभरहवास एज्जेमाणी २ ससिलासहस्सेहिं आपूरेमाणी २' इति संग्रहः, अधस्तमिस्रागुहाया वैताढ्यपर्वतं दारयित्वा 'देशदर्शनादेशस्मरण' मिति 'दाहिणद्ध भरहवासस्स बहुमज्झदेसभागं गंता' इति पदानि बोध्यानि, पश्चिमाभिमुखी आवृत्ता सती चतुर्दशभिः सलिलासहस्रैः समग्रा -पूर्णा जगतीमधो दारयित्वा पश्चिमायां लवणसमुद्रं समुपसर्पति, शेषं-उक्तातिरिक्तं प्रवहमुखमानादि तदेव गङ्गामानसमानमेव ज्ञेयम्, अथ पद्म
Fur Fate & Pay
~ 591~
४ वक्षस्कारे पद्मदनिगेताः गङ्गासिन्धुरोहितांशाः सू. ७४
॥२९४॥