________________
आगम
(१८)
“जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [४],
---- मूलं [७३] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति:
प्रत सूत्रांक
[७३]
दीप अनुक्रम [१२८]
सिंहासनपरिवारानुसारेण पार्षद्यादिपद्मसूत्राणि वक्तव्यानि, सुगमत्वाच्च न वित्रियन्ते, यावत्पश्चिमायां सप्तानीकाधि
पतीनां सप्त पद्मानि । अथ तृतीयपद्मपरिक्षेपसमयः-'तस्स ण'मित्यादि, तस्य मुख्यपद्मस्य चतसृणां दिशां समाहार18 श्चतुर्दिक् तस्मिन् चतुर्दिशि सर्वतः समन्तात् , अत्रान्तरे श्रिया देव्याः षोडशानामात्मरक्षकदेवसहस्राणां षोडश पद्म8 सहस्राणि, तथाहि-चत्वारि पूर्वस्यां चत्वारि दक्षिणस्यां एवं पश्चिमोत्तरयोः । अथोक्तव्यतिरिक्ताः अन्येऽपि त्रयः
परिवेषाः सन्तीत्याह-से णं पउमे' इत्यादि, तत्पद्मं त्रिभिरुक्तव्यतिरिक्तैः पद्मपरिक्षेपैः सर्वतः समन्तात् सम्परिक्षिप्त, 8 तद्यथा-अभ्यन्तरकेण-अभ्यन्तरभवेन मध्यमकेन-मध्यभवेन वाहिरकेण-बहिर्भवेन, एतदेव व्यनक्ति-अभ्यन्तरपद्म
परिक्षेपे द्वात्रिंशत्पद्मानां शतसहस्राणि-लक्षाणि मध्यमके चत्वारिंशत्पद्मलक्षाणि बाह्येऽष्टचत्वारिंशत्पालक्षाणि प्रज्ञशानि, इदं च पद्मपरिक्षेपत्रिकं आभियोगिकदेवसम्बन्धि बोध्यं, अत एव भिन्नत्रिकख्यापनपरं सूत्रं निर्दिष्टं, अन्यथा | सूत्रकृत् चतुर्थपञ्चमषष्ठपरिक्षेपाः इत्येवाकथयिष्यत्, ननु तर्हि आभियोगिकजातीयानामेक एवात्मरक्षकाणामिव । |वाच्या, उच्यते, उच्चमध्यनीचकार्यनियोज्यत्वेनाभियोगिकानां भिन्नत्वेन परिक्षेपस्यापि भिन्नत्वात् , अथ परिक्षेपत्रिकस्य पद्मसर्वानमाह-एवमेव'इत्यादि, एवमेव-उत्कन्यायेन सपूर्वापरेण-सपूर्वापरसमुदायेन त्रिभिः पद्मपरिक्षेपैरेका पद्मकोटी विंशतिश्च पालक्षाणि भवन्तीत्याख्यातं मयाऽन्यैश्च तीर्थकृद्भिः, सङ्ख्यानयनं च स्वयमभ्यूज़, पण्णां पापरिक्षेपाणां मुख्यपद्मेन सह मीलने सैव सङ्ख्या पश्चाशत्सहस्रकशतविंशत्यधिका ज्ञातव्या, स्थापना यथा-१२०५०१२०, ननु
ede
~574~