________________
आगम
(१८)
“जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [३],
---- मूलं [१३] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति:
प्रत सूत्रांक [१३]
दीप
न कथमुपशशामेति, उच्यते, सोपक्रमोपद्वविद्रावण एव तस्य सामर्थ्यात् , अनुपक्रमोपद्वस्तु सर्वथाऽनपासनीय
एव, अन्यथा विजयमाने वीरदेवे कुशिष्यमुक्ता तेजोलेश्या सुनक्षत्रसर्वानुभूती अनगारौ कथं भस्मतां निनाय ?, अत ॥ एषावश्यंभाविनो भावा महानुभावैरपि नापनेतुं शक्या इति, शुभकर-कल्याणकरं हितकरं-उक्तैरेव गुणैरुपकारि
| राज्ञः-चक्रवर्तिनो हृदयेप्सितमनोरथपूरक गुहाकपाटोद्घाटनादिकार्यकरणसमर्थत्वात् दिव्यं यक्षसहस्राधिष्ठितमित्यर्थः, || अत्र सेनापतेः सप्ताष्टपदापसरणं प्रजिहीपोंर्गजस्येव दृढप्रहारदानायाधिकप्रहारकरणार्थमिति, प्रत्यवष्वष्कणादनु कि | चक्रे इत्याह-'पचोसकित्ता इत्यादि, प्रत्यवष्वष्क्य च तमिस्रागुहाया दाक्षिणात्यस्य द्वारस्य कपाटौ दण्डरलेन महता
२ शब्देन त्रिकृत्वः-त्रीन वारान् आकुट्टयति-ताडयति, अत्र इत्यंभावे तृतीया, यथा महान् शब्द उत्पद्यते तथा-18 |प्रकारेण ताडयतीत्यर्थः, अत्र गुहाकपाटोद्घाटनसमये द्वादशयोजनावधिसेनानीरलतुरगापसरणप्रवादस्तु आवश्यक
टिप्पनके निराकृतोऽस्ति, यथा-"यश्चात्र द्वादशयोजनानि तुरगारूढः सेनापतिः शीपमपसरतीत्यादिपवादः सोऽना|| गामिक इव लक्ष्यते, कचिदप्यनुपलभ्यमानत्वादिति." ततः किं जातमित्याह-तए ण 'मित्यादि, ततः-ताडना
दनु तमिस्रागुहाया दाक्षिणात्यस्य द्वारस्य कपाटौ सुषेणसेनापतिना दण्डरलेन महता २ शब्देनाकुट्टितौ सन्तो महता | २ शब्देन दीर्घतरनिनादिनः क्रौंचस्येव बहुल्यापित्वाद् बनुनादित्वाच्च य आरय:-शब्दस्तं कुर्वाणो 'सरसरस्स'त्ति अनुकरणशब्दस्तेन तादृशं शब्दं कुर्वाणी कपाटावित्यर्थः स्वके २-स्वकीये २ स्थानेऽवष्टम्भभूततोड़करूपे यत्रागमय
अनुक्रम [७७]
Receasoesco
8
~ 450~