________________
आगम
(१८)
“जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [२], ------
--- मूलं [३९-४०] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति:
प्रत सूत्रांक [३९-४०]
विधुराणां मध्यमजघन्यापराधयोर्माकारहाकाररूपे द्वे तृतीयपञ्चकस्य पूर्षापराधद्वयविधुराणां जघन्येऽपराधे हाकारलक्षणा प्रथमेति, अत्र दण्डनीतय इत्युपलक्षणं तेन शरीरायुष्कप्रमाणादिकमपि यथासम्भवं प्रतिलोमतया ज्ञेयमिति, | वाचनान्तरसूत्रस्यायं भावः-अत्र व्यवच्छिन्ने राजधर्म कालानुभावेन प्रतनु २ कषायाः शास्तारो नोग्रस्तेजरकं दण्डं।
करिष्यन्ति नापि शासनीयास्तदुचितमपराधं करिष्यन्ति ततोऽरिष्ठनामकचक्रवर्तिसन्तानीयाः पञ्चदश कुलकराः। 18 भविष्यन्ति शेषाश्च तत्कृतमर्यादापालकाः क्रमेण च सर्वेऽप्यहमिन्द्रनरत्वं प्रपत्स्यन्ते, अत्र च ऋषभनामा कुलकरो 18न तु ऋषभस्वामिनामा तीर्थकृत्, तत्स्थानीयस्य भद्रकृतस्तीर्थकृतः प्रस्तुतारकस्यैकोननवती पक्षेष्वतिक्रान्तेषु उत्प
स्थमानत्वेनागमेऽभिहितत्वादिति, फिश्च स्थानाङ्गसप्तमे स्थानके सप्त कुलकरा उक्तास्तत्र सुमतिनामापि नोक्तं, दश-16 मे तु सीमङ्करादयो दशोक्तास्तत्र सुमतिनामोक्तं, परं प्रान्ते न, समवायाङ्गे तु सप्त तथैव, दश तु विमलवाहनादयः सुमतिपर्यन्ता उक्ताः, स्थानानवमस्थानके च सुमतिपुत्रत्वेन पद्मनाभोत्पत्तिरुक्ता तथा प्रस्तुतग्रन्थे द्वितीयारके कुलकरा मूलत एव नोक्ताश्चतुर्थारके तु मतान्तरेण सुमत्यादयः पञ्चदशोक्तास्तेन कुलकरानाधित्य भिन्न २ नामता-1 व्यस्तनामतान्यूनाधिकनामतारूपसूत्रपाठदर्शनेन व्यामोहो न कार्यो, वाचनाभेदजनितत्वात् तस्य, भवति हि वाचनाभेदे पाठभेदस्तत्त्वं तु केवलिगम्यमिति । अथात्रैव त्रिभागे किं किं व्युच्छेदं यास्यतीति दर्शयन्नाह-'तीसे ण'मित्यादि, तस्यां समायां प्रथमे त्रिभागे राजधर्मों यावद्धर्मचरणं च व्युच्छेत्स्यति, यावत्करणात् गणधर्मः पाख
ececececenecesscenese
दीप
अनुक्रम [५२-५३]
~358~