________________
आगम
(१८)
"जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार २], ---------....-----
-- मूलं [३४-३६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति:
प्रत सूत्रांक [३४-३६]
दुर्गमाणि निन्नानि च तान्युन्नतानि च निम्नोन्नतानि-उच्चावचानीत्यर्थः, पश्चाद् द्वन्द्वः, तानि च कर्मभूतानि शाश्वतनदीत्वाद् गङ्गासिन्धुवर्जानि समीकरिष्यन्ति । अथ तत्र भरतभूमिस्वरूपप्रश्नमाह-तीसे ण'मित्यादि, तस्यां भदन्त ! समायां भरतस्य भूमेः कीदृशक आकारभावप्रत्यवतारः भविष्यति !, भगवानाह-गौतम ! भूमी भविष्यति, अङ्गार-18 भूता-ज्वालारहितवहिपिण्डरूपा मुर्मुरभूता-विरलाग्निकणरूपा क्षारिकभूता-भस्मरूपा तप्तकवेलुकभूता-वहिप्रतप्तकवेठुकरूपा 'तप्तसमज्योतिर्भूता' तप्तेन भावे तप्रत्ययविधानात् तापेन समा-तुल्या ज्योतिषा-वह्निना भूता-जाता या सा तथा, पदव्यत्यय एवं समासश्च प्राकृतत्वात् ,धूलिबहुलेत्यादौ धूलि:-पांशुः रेणुः-वालुका पङ्क:-कईमः पनक:-प्रतलः कईमः चलनप्रमाणकद्देमश्चलनीत्युच्यते, अत एव बहूनां धरणिगोचराणां सत्त्वानां दुःखेन नितरां क्रमः-18 |क्रमणं यस्यां सा दुर्निष्कमा, दुरतिक्रमणीयेत्यर्थः, चः समुच्चये, अपिशब्देन दुर्निषदादिपरिग्रहः, अत्र बहूनामित्यादितः प्रारभ्य भिन्नवाक्यत्वेनोत्तरसूत्रवर्त्तिना भविष्यतिपदेन न पौनरुक्त्यं । अथ तत्र मनुष्यस्वरूपं पृच्छति-18 'तीसे णमित्यादि, प्रश्नसूत्र प्राग्वत् , निर्वचनसूत्रे गौतम ! मनुजा भविष्यन्ति, कीदृशा इत्याह-दूरूपा-दुःस्वभावाः |दुर्वर्णाः-कुत्सितवर्णाः, एवं दुर्गन्धाः दूरसाः-रोहिण्यादिवत् कुत्सितरसोपेताः दुःस्पर्शा:-कर्कशादिकुत्सितस्पशाः | अनिष्टा-अनिच्छाविषयाः, अनिष्टमपि किश्चित्कमनीयं स्वादित्यत आह-अकान्ताः-अकमनीयाः, अकान्तमपि किश्चिकारणवशात् प्रीतये स्यादतोऽप्रिया-अप्रीतिहेतवः, अप्रियत्वं च तेषां कुत इत्याह-अशुभा-अशोभनभावरूपत्वात् ,
दीप अनुक्रम [४७-४९]
श्रीजम्बू. १९
~340~