________________
आगम
(१८)
प्रत
सूत्रांक
[३१]
दीप
अनुक्रम
[४४]
“जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र- ७ (मूलं + वृत्तिः)
वक्षस्कार [२],
मूलं [३१]
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१८], उपांग सूत्र [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्तिः
न तु शठवद्दर्शिता बहित्थ इति, कूर्मचद् गुप्तेन्द्रियः, कच्छपो हि कन्धरापादलक्षणावयवपञ्चकेन गुप्तो भवति एवमयमपीन्द्रियपञ्चकेन, पूर्वोकं गुप्तेन्द्रियत्वं दृष्टान्तद्वारा सुबोधमिति न पौनरुक्त्यं, पुष्करपत्रमिव निरुपलेपः, पङ्कजलकल्पस्वजन विषय स्नेहरहित इत्यर्थः, गगनमिव निरालम्बनः- कुलग्रामनगरादिनिश्रारहितः अनिल इव-वायुरिव निरालयोवसतिप्रतिबन्धवन्ध्यः, यथोचितं सततविहारित्वात्, अयमत्राशयः - यथा वायुः सर्वत्र संचरिष्णुत्वेनानियतवासी तथा प्रभुरपीति, चन्द्र इव सौम्यदर्शन:- अरौद्रमूर्त्तिः, सूर इव तेजस्वी परतीर्थिकतेजोऽपहारित्वात्, विहगः-पक्षी स इवाप्रतिबद्धतया गच्छतीत्येवंशीलः स तथा, किमुक्तं भवति १-स्थलचरजलचरौ स्थलजलनिश्रितगमनौ न तथा विहगः स्वावयवभूतपक्ष सापेक्षगामित्वात् तेन विहगवदयं प्रभुरनेकेष्वनार्थदेशेषु कर्मक्षय साहायककारिषु परानपेक्षः स्वशत्या विहरतीति, सागर इव गम्भीरः - परैरलब्धमध्यो निरुपमज्ञानवत्त्वेऽपि रहः कृतपरदुश्चरितानामपरिस्रावित्वात् हर्षशोकादिकारणसद्भावेऽपि तद्विकारादर्शनाद्वा, मन्दर इव अकम्पः, स्वप्रतिज्ञातेषु तपःसंयमेषु दृढाशयत्वेन प्रवर्त्तनात् पृथ्वीव सर्वान् स्पर्शाननुकूलेतरान् विषहते यः स तथा जीव इवाप्रतिहतगतिः - अस्खलितगतिः, यथा हि जीवस्य कटकुव्यादिभिर्न गतिः प्रतिहन्यते तथा केनापि परपाखण्डिना आर्यानार्यदेशेषु सञ्चरतः प्रभोरपि, अथ मा भवन्तु दुर्द्धर्षस्य प्रभोः परे गतिविघातकाः परं स्वप्रतिबन्धेनापि गतिर्विहन्यते इत्याह'णत्थि ण' मित्यादि, नास्ति तस्य भगवतः कुत्रचित् प्रतिबन्धः - अयं ममास्याहमित्याशयबन्धरूपः, अयमेव हि
Fur Fraternae Cy
~300~