________________
आगम
(१८)
प्रत
सूत्रांक
[१]
दीप
अनुक्रम
[8]
“जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र- ७ (मूलं + वृत्तिः)
वक्षस्कार [१],
मूलं [१]
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१८], उपांग सूत्र [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्तिः
श्रीजम्बू
द्वीपशान्तिचन्द्री
या वृत्तिः
॥ १२ ॥
| शहेतोरयोगात्, तथाहि-मुङ्गरादिना विनाशकाले किं घटादिरेव क्रियते आहोश्वित्कपालादय उत तुच्छरूपोऽभाव इति त्रयी गतिः १, तत्र न तावद् घटादिस्तस्य स्वहेतुभूतकुलालादिसामग्रीत एवोत्पत्तेः, नापि कपालादयस्तत्करणे | घटादेस्तदवस्थत्वप्रसङ्गात् न ह्यम्यकरणे अन्यस्य निवृत्तिर्युक्तिमती, एकनिवृत्तौ शेषभुवनत्रयस्यापि निवृत्तिप्रसङ्गात्, नापि तुच्छरूपोऽभावः, खरशृङ्गस्येव नीरूपस्य तस्य कर्त्तुमशक्यत्वात् करणे वा घटादेस्तदवस्थताप्रसङ्गाद्, | अम्यकरणेऽन्यनिवृत्त्यसम्भवादिति विनाशे मुद्गरादिकं सहकारिकारणमेव न तु तज्जनकं घटादिस्तु क्षणिकत्वेन निर्हे| तुकः स्वयमेव निवर्त्तते तस्माजन्मविनाशयोर्न किञ्चित्केनचिदपेक्ष्यते, अपेक्षणीयाभावाच न किञ्चित्कस्यचित्कारणं, तथा च सति न किञ्चिद्रव्यं, किन्तु पूर्वापरीभूताः परापरक्षणरूपाः पर्याया एव सन्तीति । अत्र नामादिनयाधिकारे | बहु वक्तव्यं तत्तु विशेषावश्यकादवसेयमिति, एवमसम्पूणार्थमाहित्वाद् गजगात्रभिन्न २ देशसंस्पर्शने बहुविधविवाद - | मुखरजात्यन्धवृन्दवद्विवदमाने नयवृन्दे मिथ्यादृष्टित्वमुद्भाव्य तत्तिरस्करणाय सर्वनयसमूहात्मकस्याद्वाद सुधारसास्वादरसिकतामनुभवतामयमुङ्गारः, तथाहि लोके यत्किमपि घटपटादिकं वस्त्वस्ति तत् सर्वमन्योऽन्यसापेक्षनामादिचतु|ष्ट्यात्मकं न पुनः केवलनाममयं वा केवलाकाररूपं वा केवलद्रव्यताश्लिष्टं वा केवलभावात्मकं वा, यतः एकस्मिन्नपि | शचीपत्यादौ इन्द्र इति नाम तदाकारस्तु स्थापना उत्तरावस्थाकारणत्वं तु द्रव्यत्वं दिव्यरूपसम्पत्ति कुलिशधारणपरमैश्वर्यादिसम्पन्नत्वं तु भाव इति नामादिचतुष्टयमपि प्रतीयते एतदर्थसंवादका उत्तराध्ययनवृहद्वृत्त्युक्ताः श्लोका अपि
'नमो' एवं 'अरहंत' शब्दस्य नामादि निक्षेपाः, नया:
Fur Ervate & Pune Cy
~ 27~
निक्षेपचतुष्कं
॥ १२ ॥