SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ आगम (१८) प्रत सूत्रांक [३०] दीप अनुक्रम [४३] “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र- ७ (मूलं + वृत्तिः) वक्षस्कार [२], मूलं [३०] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१८], उपांग सूत्र [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्तिः च ऋपभो वृषभो वेति नाम्ना, कोशलायां - अयोध्यायां भवः कौशलिकः 'भाविनि भूतवदुपचार' इति न्यायादेतद्विशेपणं, अयोध्यास्थापनाया ऋषभदेवराज्यस्थापनासमये कृतत्वात् तद्व्यक्तिस्तु भरत क्षेत्रनामान्यर्थकथनावसरे 'धणवईमतिनिम्माया' एतत्सूत्रव्याख्यायां दर्शयिष्यते, अर्हन्तश्च पार्श्वनाथादय इव केचिदनङ्गीकृतराजधर्मका अपि स्युरित्यसौ केन क्रमेणान्नभूदित्याह - प्रथमो राजा, इहावसर्पिण्यां नाभिकुलकरादिष्टयुग्मिमनुजैः शक्रेण च प्रथममभि| पिकत्वात्, प्रथमजिनः प्रथमो रागादीनां जेता, यद्वा प्रथमो मनःपर्यवज्ञानी राज्यत्यागादनन्तरं द्रव्यतो भावतश्च साधुपदवर्त्तित्वे, अत्रावसपिण्यामस्यैव भगवतः प्रथमतस्तद्भवनात्, जिनत्वं चावधिमनः पर्यवकेवलज्ञानिनां स्थानाने | सुप्रसिद्धं, अवधिजिनत्ये तु व्याख्यायमानेऽक्रमबद्धं सूत्रमिति, केवलिजिनत्वे चोत्तरग्रन्थेन सह पौनरुक्त्यमिति व्याख्यानासङ्गतिः श्रोतॄणां प्रतिभासेत, प्रथमकेवली - आद्य सर्वशः, केवलित्वे च तीर्थकृन्नामोदयतीत्याह-प्रथमतीर्थकर :- आद्यचतुर्वर्णसङ्घस्थापकः, उदिततीर्थकृन्नामा च कीदृशः स्यादिति - प्रथमो धर्मवशे- धर्मप्रधानश्चक्रवत्तीं, यथा चक्रवतीं सर्वत्राप्रतिहतवीर्येण चक्रेण वर्त्तते तथाऽयमपीति भावः, समुदपद्यत - समुत्पन्नवानित्यर्थः, अथ यथा भगवान् वयः प्रतिपन्नवान् तथाऽऽह - 'तए ण' मित्यादि, ततो जन्मकल्याणकानन्तरमित्यर्थः, ऋषभोऽर्हन् कौशलिकः विंशर्ति पूर्वशतसहस्राणि - पूर्वलक्षाणि भावप्रधानत्वान्निर्देशस्य कुमारत्वेन-अकृताभिषेकराजसुतत्वेन वासः - अवस्थानं तन्मध्ये वसति, 'कुमारवास मज्झावस' इति पाठे तु कुमारवासमध्यावसति आश्रयतीत्यर्थः, उषित्वा च त्रिषष्टिपूर्वलक्षाणि अत्रापि Fur Fate &P Cy ~274~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy