________________
आगम
(१८)
प्रत
सूत्रांक
[२३-२४]
दीप
अनुक्रम [ ३६-३७]
वक्षस्कार [२],
मूलं [२३-२४]
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१८], उपांग सूत्र [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्तिः
श्रीजम्बूद्वीपचान्तिचन्द्री
या वृत्तिः
॥१२३॥
“जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र- ७ (मूलं + वृत्ति:)
JE(into
| स्थालीपाकः - सम्प्रदायगम्यः मृतपिण्डनिवेदनानि - मृतेभ्यः स्मशाने तृतीयनयमादिषु दिनेषु पिण्डनिवेदनानि - पिण्डसम - र्पणानि १, अत्रोत्तरं नायमर्थः समर्थः, व्यपगतावाहविवाहयज्ञ श्राद्धस्थालीपाकमृतपिण्डनिवेदनास्ते मनुजाः । 'अत्थि णमित्यादि, इन्द्रः प्रतीतस्तस्य महः - प्रतिनियतदिवसभावी उत्सवः, एवमग्रेऽपि, स्कन्दः - कार्त्तिकेयः नागो-भवनपति| विशेषः यक्षभूतौ-व्यन्तरविशेषी 'अगड' ति अवटः- कूपः तडागः - सरः ब्रहनदीरूक्षपर्वताः प्रतीताः स्तूपः- पीठविशेषः चैत्यं च - इष्टदेवतायतनं, अत्राह - व्यपगतमहिमानस्ते मनुजाः प्रज्ञप्ताः । 'अत्थि ण'मित्यादि, नटा - नाटवितारः तेषां प्रेक्षा- प्रेक्षणकं कौतुकदर्शनोत्सुकजनमेलकः, एवमग्रेऽपि, नृत्यन्ति स्म नृत्ताः - कर्त्तरि कः प्रत्ययः नृत्तविधायिनः जलावरत्राखेलकाः मला-भुजयुद्धकारिण मौष्टिका - मल्ला एव ये मुष्टिभिः प्रहरन्ति बिडम्बका - विदूषकाः मुखविकारादिभि-|| र्जनानां हास्योत्पादकाः कथकाः - सरसकथाकथनेन श्रोतृरसोत्पत्तिकारकाः प्लवका - ये झम्पादिभिर्गर्त्तादिकमुत्प्लवन्ते | गर्त्तादिलङ्घनकारिणः इत्यर्थः अथवा तरन्ति नद्यादिकं ये इति लासका ये रासकान् ददति तेषां प्रेक्षा, उपलक्षणादाख्यायकप्रेक्षादिग्रहः, अत्रोत्तरं - नायमर्थः समर्थः, यतो व्यपगतकुतूहलास्ते मनुजाः प्रज्ञप्ताः । 'अत्थि ण'मित्यादि, | अत्र शकटानि प्रतीतानि रथाः - क्रीडारथादयः वायन्ते - गम्यन्ते एभिरिति व्युत्पत्त्या यानानि उक्तवक्ष्यमाणातिरिकानि गन्त्र्यादीनि युग्यं - पुरुषोत्क्षितमाकाशयानं जम्पानमित्यर्थः 'गिल्लि'त्ति पुरुषद्वयोत्क्षिप्ता डोलिका 'थिल्लि'ति वेसरादिद्वय विनिर्मितो यानविशेषः शिविका-प्रतीता स्यन्दमानिका- पुरुषायामप्रमाणः शिविकाविशेषः, अत्र प्रतिवचः
Fur Fraternal Use O
Se৬৬১৬:
~ 249~
२वक्षस्कारे प्रथमारकेनरावासादिव. सू. २३-२४
॥ १२३॥