________________
आगम
(१८)
प्रत
सूत्रांक
[२२]
दीप
अनुक्रम [३५]
“जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र- ७ (मूलं+वृत्तिः)
वक्षस्कार [२],
मूलं [२२]
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१८], उपांग सूत्र [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्तिः
Jin Ebeni
अकरणात्कान्ततरिका चैव प्रियतरिका चैवेति परिग्रहः, मनआपतरिका एव आस्वादेन प्रज्ञता इति, अथ पुष्पफलानामास्वादं पृच्छन्नाह-'तेसि ण' मित्यादि तेषां पुष्पफलानां कल्पद्रुसम्बन्धिनां कीटशः-क आस्वादः प्रज्ञप्तो, यानि पूर्वसूत्रे युग्मिनामाहारत्वेन व्याख्यातानी ति गम्यं, भगवानाह गौतम ! तद्यथा नाम राज्ञः, स च राजा लोके कतिपयदेशाधीशोऽपि स्यादत आह-चतुर्च्चन्तेषु समुद्रत्रयहिमवत्परिच्छिन्नेषु चक्रेण वर्त्तितुं शीलमस्येति चतुरन्तचक्रवर्त्ती, 'अतः समृद्ध्यादौ वे' (श्रीसि० ८-१-४४) त्यनेन दीर्घत्वं अनेन वासुदेवतो व्यावृत्तिः कृता, तस्य कल्याणं- एकान्तसुखावहं भोजनजातं - भोजनविशेषः शतसहस्रनिष्पन्नं- लक्षव्ययनिष्पन्नं, वर्णेनातिशायिनेति गम्यते, अन्यथा सामान्यभोजनस्यापि वर्णमात्रवत्ता सम्भवत्येवेति किमाधिक्यवर्णनं १, उपपेतं युक्तं, यावदतिशायिना स्पर्शेनोपपेतं यावत् | गन्धेन रसेन चातिशायिनोपपेतं आस्वादनीयं सामान्येन विस्वादनीयं विशेषतस्तद्रसमधिकृत्य दीपनीयं - अभिवृद्धिकरं | दीपयति जठराग्निमिति दीपनीयं, बाहुलकात्कर्त्तर्यनीयप्रत्ययः, एवं दर्पणीयमुत्साहवृद्धिहेतुत्वात्, मदनीयं- मन्मथजनकत्वात् बृंहणीयं धातूपचयकारित्वात् सर्वाणि इन्द्रियाणि गात्रं च प्रह्लादयतीति सर्वेन्द्रियगात्रप्रह्लादनीयं वैशद्यहेतुत्वात्तेषां एवमुको गौतम आह-भगवन् ! भवेदेतद्रूपस्तेषां पुष्पफलानामास्वादः १, भगवानाह - गौतम ! नायमर्थः | समर्थः, तेषां पुष्पफलानामित: - चक्रवर्त्तिभोजनादिष्टतरकादिरेवाखादः, अत्र कल्याणभोजने सम्प्रदाय एवं - चक्रवर्त्ति सम्बन्धिनीनां पुंढेचारिणीनामनातङ्कानां गवां लक्षस्याद्धार्द्धक्रमेण पीतगोक्षीरस्य पर्यन्ते यावदेकस्याः गोः सम्बन्धि
Fur Fate &P Cy
~ 240~