________________
आगम
(१८)
“जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [२], -----
---- मूलं [२१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति" मूलं एवं शान्तिचन्द्र विहित वृत्ति:
प्रत सूत्रांक
[२१]
दीप
बीणां चेष्टाविशेषः, आह च-"स्थानासनगमनानां हस्तनेत्रकर्मणां चैव । उत्पद्यते विशेषो यः श्लिष्टः स सुविलासः खात् ॥१॥" नन्दनवनं-मेरोद्वितीयवनं तस्य विवर-अवकाशो वृक्षरहितभूभागस्तत्र चारिण्य इवाप्सरसो-देव्यः भरतवर्षे मानुषरूपा अप्सरसः आश्चर्य-अद्भुतमिति प्रेक्षणीयाः प्रासादीया इत्यादि । सम्प्रति स्त्रीपुंससाधारण्येन तत्कालभाविमनुष्यस्वरूपं विवधुरिदमाह-'ते ण मणुआ' इत्यादि, ते सुषमसुषमाभाविनो मनुष्याः ओष:-प्रवाही स्वरो येषां 18 ते तथा, हंसस्येव मधुरः स्वरो येषां ते तथा, कौश्वस्येवाप्रयासविनिर्गतोऽपि दीर्घदेशव्यापी स्वरो येषां ते तथा, नन्दी-18 द्वादशविधतूर्यसमुदयस्तस्या इव शब्दान्तरतिरोधायी स्वरो येषां ते तथा, नन्या इव घोषः-अनुनादो येषां ते तथा, सिंहस्खेव बलिष्टः स्वरो येषां ते तथा, एवं सिंहघोषा उक्तविशेषणानां विशेषणद्वारा हेतुमाचष्टे-मुखराः सुस्वरनि||पाः, छायया-प्रभया योतितान्यज्ञानि-अवयवा यस्य तदेवंविधमज-शरीर येषां ते सथा, मकारोऽलाक्षणिक, | बजऋषभनाराचे नाम सर्वोत्कृष्टमा संहननं येषां ते तथा, समचतुरसं संस्थान-सर्वोत्कृष्ट आकृतिविशेषस्तेन संस्थिताः,
यां-वचि निरातङ्का:-नीरोगाः दद्धकुष्ठकिलासादित्वग्दोषरहितवपुष इत्यर्थः, अथवा छवित्ति छविमन्ता, छविच्छ|विमतोरभेदोपचारादू दीर्घरवेन मतुब्लोपाद्वा, यथा मरीचिरित्यत्र मलयमिरीयावश्यकवृत्ती, उदात्तवर्णसुकुमारत्वचा युक्ता 1. इत्यर्थः, पश्चानिरातङ्कापदेन कर्मधारयः, अनुलोम:-अनुकूलो वायुवेग:-शरीरान्तर्वी वातजयो येषां ते तथा, कपोतस्य
श्व गुल्मरहितोदरमध्यप्रदेशाः, सति गुल्मे प्रतिकूलो वायुवेगो भवतीति भावः, कङ्क:-पक्षिविशेषस्तस्येव ग्रहणी-गुदाशयो|
अनुक्रम
[३४]
~236~