________________
आगम
(१८)
प्रत
सूत्रांक
[२१]
दीप
अनुक्रम
[३४]
“जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र- ७ (मूलं+वृत्तिः)
वक्षस्कार [२],
मूलं [२१]
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१८], उपांग सूत्र [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्तिः
Jan Ebeni
- यासां तास्तथा छत्रं १ ध्वजः २ यूपः-स्तम्भविशेषः ३ स्तूपः पीठं ४ दामिणित्ति - रूढिगम्यं ५ कमण्डलुः - तापसपानीयपात्रं ६ कलशः ७ वापी ८ स्वस्तिकः ९ पताका १० यवो ११ मत्स्यः १२ कूर्मः १३ रथवरः १४ मकरध्वजः-कामदेवस्तत्संसूचकं सूचनीये सूचकोपचारालक्षणमिति, तच्च सर्वकालमविधवत्वादिसूचक १५ अङ्कः- चन्द्रविम्वान्तर्वतीं श्यामावयवः, कचिदङ्कस्थाने शुक इति दृश्यते १६ स्थालं १७ अङ्कुशः १८ अष्टापदं यूतफलकं १९ सुप्रतिष्ठकंस्थापनकं २० मयूरः २१ श्रियोऽभिषेको-लक्ष्म्या अभिषेकः २२ तोरणं २३ मेदिनी २४ उदधिः २५ वरभवनं- प्रधानगृहं २६ गिरि २७ र्वरादर्शो वरदर्पणः २८ सलीलगजो-लीलावान् गजः २९ ऋषभोगी: ३० सिंहः ३१ चामरं ३२ एतान्युत्तमानि - प्रधानानि प्रशस्तानि - सामुद्रिकशास्त्रेषु प्रशंसास्पदीभूतानि द्वात्रिंशलक्षणानि घरन्ति यास्तास्तथा, हंसस्य सदृशी गतिर्यासां तास्तथा कोकिलाया आबमञ्जरी संस्कृतत्वेन पञ्चमस्वरोगारमयी या मधुरा गीस्तद्वत् सुष्ठु - शोभनः स्वरो यासां तास्तथा, कान्ताः - कमनीयाः सर्वस्य तत्प्रत्यासन्नवर्त्तिनो लोकस्यानुमताः- सम्मता न कस्यापि मनागपि द्वेष्या इति भावः, बलि:- शैथिल्यसमुद्भवश्चर्मविकारः पलितं पाण्डुरः कचः व्यपगतानि वलिपलितानि वाभ्यस्तास्तथा, | तथा विरुद्धमङ्गं व्य-विकारवानवयवः दुर्वर्णो- दुष्टशरीरच्छविः व्याधिदौर्भाग्यशोकाः प्रतीताः तैर्मुक्ताः, पश्चाद्विशेषणद्वयकर्मधारयः, उच्चत्वेन च नराणां स्वभर्तॄणां स्तोकोनं यथा स्यात्तथोच्छ्रिताः किञ्चिन्यूनत्रिगव्यूतोच्छ्रया इत्यर्थः, न हि ऐदंयुगीन मनुष्यपक्य इव स्वभर्तुः समोच्चत्वा अधिकोषत्वा वा भवेयुः, किमुक्तं भवति ? - यथा हि सम्प्रति पुरुषस्य
Fur Fate &P Cy
~234~