________________
आगम
(१८)
“जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [-].---...............--
------ मूलं [-] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति:
प्रत
सूत्राक
दीप
यनादि नाम, तन्निक्षेपोऽनुयोगद्वारादिभ्योऽवसेयः, तत्रेह भावाध्ययनादिनाऽधिकारः, नामनिष्पने तु निक्षेपेऽस्य जम्बू-| द्वीपप्रज्ञप्तिरिति नाम, ततो जम्बूशब्दस्य प्रज्ञप्तिशब्दस्य च निक्षेपो वाच्यः, तत्र जम्बूशब्दस्य नामस्थापनाद्रव्यभाव9 भेदात् चतुर्धा निक्षेपः, तत्र नामजम्बूर्यस्य जम्बूरिति नाम, यथा जम्बूरन्तिमकेवली जम्बा अभिधानं वा, स्थापना
जम्बूर्या जम्यूरिति स्थापना क्रियते यथा चित्रलिखितजम्बूवृक्षादिः, द्रव्यजम्बूद्धिधा-आगमतो नोआगमतच, आग-18 मतस्तदर्थज्ञाताऽनुपयुक्तो, नोआगमतो ज्ञशरीरभव्यशरीरोभयव्यतिरिक्तभेदात् त्रिधा, तत्राद्यौ भेदी सुप्रतीती, उभयव्यतिरिक्तद्रव्यजम्बूरपि त्रिधा-एकभविकवद्धायुष्काभिमुखनामगोत्रजन्तुभेदात् , तत्रैकभविको नाम य एकभवान-1॥ न्तरं जम्बूत्वेनोत्पत्स्यते, बद्धायुष्कस्तु येन जम्ब्वायुर्वद्धं, अभिमुखनामगोत्रस्तु यस्य जम्ब्वा नामगोत्रकर्मणी अन्तर्मुहनिन्तरमुदयमायास्यत इत्ययं त्रिविधोऽपि भाविभावजम्बूकारणत्वाइव्यजम्यूरिति, भावजम्बूरपि द्विधा-आगमतो नोआगमतश्च, तत्रागमतो ज्ञातोपयुक्तः, नोआगमतस्तु जम्बूदुम एव जम्बूदुमनामगोत्रकर्मणी वेदयन्निति, आह-यथा | | अभिमुखजम्बूभावस्य जीवस्य द्रव्यजम्बूत्वं 'भाविनि भूतवदुपचार' इति न्यायात् तथा आसन्नपश्चात्कृतजम्बूभावस्यापि 'भूतपूर्वकस्तबदुपचार' इति न्यायात् कथं न द्रव्यजम्बूत्वं निर्दिष्टं १, उच्यते, इदमुपलक्षणं, तेन तखापि न्यनिक्षेप एवान्तर्भावः 'भूतस्य भाविनो'त्यादिद्रव्यलक्षणस्य सद्भावात् , अनानिर्देशकारणं तु श्रीउत्तराध्ययनद्रुमपत्रीयाध्ययननिर्युक्तौ श्रीभद्रबाहुस्वामिपादैः द्रुमनिक्षेपेऽविवक्षणं, तत्तुल्यन्यायवादस्य निक्षेपस्येति, प्रस्तुते च नोआगमतो भावज
अनुक्रम
'जम्बू, द्वीप, प्रज्ञप्ति' इति त्रयाणाम-शब्दानाम् निक्षेप-आदेः कथनं
~ 20~