________________
आगम
(१८)
प्रत
सूत्रांक
[१३]
दीप
अनुक्रम [१४]
“जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र- ७ (मूलं + वृत्तिः)
वक्षस्कार [१],
मूलं [१३]
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१८], उपांग सूत्र [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्तिः
श्री यू. १४
पद्मवरवेदिकादिवर्णनायाह- 'से ण'मित्यादि व्यक्तं, अथ सिद्धायतनकूटस्योपरि भूभागवर्णनायाह- 'सिद्धाय तण' इत्यादि प्राग्वत्, अथात्र जिनगृहवर्णनायाह- 'तस्स ण' मित्यादि, तस्य - बहुसमरमणीयस्य भूमिभागस्य बहुमध्य| देशभागे अत्र महदेकं सिद्धानां - शाश्वतीनामर्हत्प्रतिमानामायतनं स्थानं चैत्यमित्यर्थः प्रज्ञयं क्रोशमायामेनार्द्धक्रोशं विष्कम्भेन देशोनं क्रोशमूञ्चत्वेन, देशश्चात्र षष्ट्यधिकपञ्चशतधनूरूप इति यत उक्तं वीरंजयसेहरेत्यादिक्षेत्रविचारस्य वृत्तौ - 'ताणुवरि चेहरा दहदेवी भवणतुलपरिमाणा' इत्यस्या गाथाया व्याख्याने "तेषां वैताढ्यकूटानामुपरि चैत्यगृहाणि द्रहदेवी भवनतुल्यपरिमाणानि वर्त्तन्ते, यथा श्रीगृहं क्रोशकदीर्घं क्रोशार्द्धविस्तारं चत्वारिंशदधिकचतुर्दशशतधनुरुच्च" मिति, तथा अनेकेषु स्तम्भशतेषु संनिविष्टं, तदाधारकत्वेन स्थितमित्यर्थः, तथा स्तम्भेषु उद्गता-संस्थिता. | सुकृतेव सुकृता निपुणशिल्पिरचितेवेति भावः ततः पदद्वयस्य कर्मधारयः, तादृशी वज्रवेदिका - द्वारशुण्डिकोपरि वज्ररक्षमयी वेदिका तोरणं च स्तम्भोद्गतसुकृतं यत्र तत्तथा, तथा वराः - प्रधाना रतिदा-नयनमनःसुखकारिण्यः सालभंजिका येषु ते तथा सुश्लिष्टं सम्बद्धं विशिष्टं प्रधानं उष्टं - मनोज्ञं संस्थितं संस्थानं येषां ते तथा ततः पदद्भयकर्मधारये तादृशाः प्रशस्ताः - प्रशंसास्पदीभूता वैडूर्यविमलस्तम्भा यत्र तत्तथा ततः पूर्वपदेन कर्मधारयः, तथा नानाम| णिरक्षानि खचितानि यत्र स नानामणिरत्नखचितः, निष्ठान्तस्य परनिपातः भार्यादिदर्शनात्, तादृश उज्यलो -निर्मलो बहुसमः - अत्यन्तसमः सुविभक्तो भूमिभागो यत्र तत्तथा, 'ईहामिगे' त्यादि प्राग्वत् व्याख्येयं, नवरं मरीचिकवचं - किर
Fur Prote&P Cy
~160~