________________
आगम
(१८)
"जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [१],
---- मूलं [११] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति:
प्रत सूत्रांक [११]
|कर्षकादिप्रयोगनिष्पन्नैः अकृत्रिमैः क्रमाद्रलखानिसंभूतानुप्तसम्भूतैरुपशोभितो दक्षिणार्द्धभरतस्य भूमिभागः, अने-15 नास्थ कर्मभूमित्वमभाणि, अन्यथा हैमवताधकर्मभूमिष्वपि इदं विशेषणमकथयिष्यदिति, चकारौ समुच्चयायौं पवकाराववधारणार्थों, अथवा चैवेत्यखण्डमव्ययं समुच्चयार्थ, अपिचैत्यादिवत् , ननु अनेन सूत्रेण वक्ष्यमाणेनोत्तरभरतार्द्धवर्णकसूत्रेण च सह 'खाणुबहुले विसमबहुले कंटगबहुले' इत्यादिसामान्यभरतवर्णकसूत्र विरुध्यति, न चैते सूत्रे अरकविशेषापेक्षे सामान्यभरतसूत्रं तु प्रज्ञापककालापेक्षमिति न विरोध इति वाच्यं, मणीनां तृणानां च कृत्रिमत्वाकृत्रिमत्वभणनेनानयोरपि प्रज्ञापककालीनत्वस्यैवौचित्यात्, कृत्रिममणितृणानां तत्रैव सम्भवात्, प्रज्ञापककालश्चाव
सर्पिण्यां तृतीयारकमान्तादारभ्य वर्षशतोनदुष्पमारकं यावदिति चेत् , उच्यते, अत्र 'खाणुबहुले विसमबहुले'इत्यादि॥ सूत्रस्य बाहुल्यापेक्षयोकत्वेन कचिद्देशविशेषे पुरुषविशेषस्य पुण्यफलभोगार्थमुपसम्पद्यमानं भूमेबहुसमरमणीयत्वादिकं ।
न विरुध्यति, भोजकवैचित्र्ये भोग्यवैचित्र्यस्य नियतत्वात् , अनेनास्यैकान्तशुभैकान्ताशुभमिश्रलक्षणकालत्रयाधारकत्वमसूचि, एकान्तशुभे हि काले सर्वे क्षेत्रभावाः शुभा एव एकान्ताशुभे हि सर्वे अशुभा एव मित्रे तु क्वचिच्छुभाः कचिदशुभाः, अत एव पश्चमारकाद् यावद्भूमिभागवर्णकं बहुसमरमणीयत्वादिकमेव सूत्रकारेणाभ्यधायि षष्ठेऽरके तु एकान्ताशुभे न तथेति सर्व सुस्यं । अथ तत्रैव मनुष्यस्वरूपं पृच्छति-'दाहिणभरहे'त्यादि प्रश्नसूत्रं प्राग्वत् , निच-1 नसूत्रे भगवानाह-गौतम ! येषां स्वरूपं भवता जिज्ञासितं ते मनुजा बहूनि बज्रऋषभनाराचादीनि संहननानि-वपुढे-10
दीप
अनुक्रम [१२]
~ 142~