________________
आगम
(१८)
“जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र- ७ (मूलं + वृत्तिः)
वक्षस्कार [--],
मूलं [-]
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१८], उपांग सूत्र [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्तिः
भीजम्बूडीपशान्तिचन्द्री - या वृचिः
॥५४४॥
वर्षे श्रीविक्रमार्काद्विधुशरशरभूवक्रधात्री १६५१ प्रमाणे, राज्ये प्राज्ये श्रिया श्रीअकबरनृपतेः पुण्यकारुण्यसिन्धोः १९ अस्योपाङ्गस्य गाम्भीर्यान्मदीयमतिमान्द्यतः । सम्प्रदायव्यपायाच्च, पूर्ववृत्तिनिवृत्तितः ॥ २० ॥t विरुद्धमागमादिभ्यो, यदत्र लिखितं मया । धीलोचनैस्तदालोच्य शोध्यं सानुग्रहैर्मयि ॥ २१ ॥ युग्मम् ॥ तुष्यन्तु साधवः सर्वे, मा रुध्यन्तु खला मयि । नमस्करोमि निःशेषान् प्रीत्या भीत्या क्रमादिमान् ॥ २२ ॥ गम्भीरमिदमुपानं यथामति विवृण्वता विशदमतिना । यदवापि मया कुशलं कुशलमतिस्तेन भवतु जनः ॥ २३ ॥ अये यावलीलोकसि नभसि नक्षत्रकुसुमव्रजं राज्ञः श्यामाभिगमसमये पूरिततरम् ।
मृजाकारः सूर्यः करबहुकरेणापनयति, ध्रुवा तावद्भूयादियमखिललोकैः परिचिता ॥ २५ ॥ अथ शोधनसमयगता पुरोऽनुसन्धीयते प्रशस्तिरियम् । तपगणसाम्राज्यरमां श्रयति श्रीविजयसेनगुरौ ॥ २६ ॥ यत्सौभाग्यमनुत्तरं गुणगणो येषां वचोगोचरातीतः कोऽप्यभवत् पुरापि विनयाधारः ( सदा पूजितः । हित्वा येन पतिंवरावदपरान् यानेव सच्चातुरीयुक्ताचार्यपदव्युदाररचिता सौवश्रियेऽशिश्रियत् ॥ २७ ॥ यद्रूपं मदनं सदा विमदनं निर्माति रम्यश्रिया, यरकीर्त्तिश्च पदातिकं वितनुते कान्त्या निशानायकम् । चित्र सचिनुते च चेतसि सतां यद्देशनावाकू सुधादेश्या शासनदीशिकृच्च सतपो यद् ध्यानमत्यद्भुतम् ॥ २८ ॥ ते श्री अकबरमहीधरदत्तमान- विख्यातिमद्विजयसेनगणाधिपानाम् ।
For P&False Cinly
~ 1091 ~
प्रशस्तिः.
॥५४४॥