SearchBrowseAboutContactDonate
Page Preview
Page 1091
Loading...
Download File
Download File
Page Text
________________ आगम (१८) “जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [-], --------- ------ मूलं [-] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति" मूलं एवं शान्तिचन्द्र विहित वृत्ति: सौभाग्य यस्य नानो नृपसदसि गुणिवादितायां प्रसिद्धेः, सौभाग्यं देशनाया अकवरनृपतिः पादयोः पादुका । सौभाग्यं यस्य पाणेरुपपदविजयः सेनसूरीश्वरोऽसौ, सौभाग्यं दर्शनस्य त्वहमहमिकया स्वान्यलोकोपपातः ॥१३॥ इदानीं तत्पट्टे गुरुविजयसेनो विजयते, कलौ काले मूर्तः सुविहितजनाचारनिचयः। विरेजे राजन्वान् शशधरगणो येन विभुना, गुणग्रामो यस्माद् भवति विनयेनैव सुभगः॥१४॥ खलास्तेजोराशिं चरणगुणराशिं सुविहिता, विनेयाश्चिद्राशिं प्रतिवचनराशिं कुमतिनः । कविः की राशिं वरविनयराशिं च गुरवो, विदुः स्थाने जाने शुचिसुकृतराशिं पुनरमुम् ॥१५॥ गुरोरस्य श्रुत्वा श्रवणमधुरं चारु चरितं, स्वगन्धर्वोद्गीतं शुचिगुणगणोपार्जनभवम् ।। चमत्कारोत्कर्षात् ससलिलसहस्रानिमिषद्दक्, पटक्केदक्लेशं सुबहु सहते गिर्यसहनः ॥१६॥ तेषां गणे गुणवतां धुरि गण्यमानः, श्रीवाचकः सकलचन्द्रगुरुर्बभूव ।। मेधाविषु प्रथमतः प्रथमानकीर्तिः, स्फूर्तिर्यदीयकविकर्मणि सुप्रसिद्धा ॥१७॥ पुनः पुनः संस्मृतिमीयुषीणां, प्रतिक्रियेयं यदुपक्रियाणाम् । पुनः पुनर्लोचनसान्द्रभावः, पुनः पुनर्निःश्वसनस्वभावः ॥ १८॥ तेषां शिष्याणुनेयं गुरुजनविहितानुग्रहादेव जम्बूद्वीपप्रज्ञप्तिवृत्तिः स्वपरहितकृते शान्तिचन्द्रेण चके। ~ 1090~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy