________________
आगम
(१८)
“जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्तिः)
वक्षस्कार [७],
मूलं [१९७४- १७६]
मुनि दीपरत्नसागरेण संकलित ..... आगमसूत्र [१८], उपांग सूत्र [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्तिः
भीजम्मूद्वीपशान्तिचन्द्रीया वृत्तिः
॥५३९॥
परिणामोऽपि पर्वतादिमत्त्वात् अप्परिणामोऽपि नदीहदादिमत्त्वात् जीवपरिणामोऽपि मुखवनादिषु वनस्पत्यादिमत्त्वात्, यद्यपि स्वसमये पृथिव्यपकाय परिणामत्वग्रहणेनैव जीवपरिणामत्वं सिद्धं तथापि लोके तयोर्जीवत्वस्याव्यवहारात् पृथग्ग्रहणं, वनस्पत्यादीनां तु जीवत्वव्यवहारः स्वपरसम्मत इति, पुद्गलपरिणामोऽपि मूर्त्तत्वस्य प्रत्यक्षसिद्धत्वात्, कोऽर्थः १-जम्बूद्वीपो हि स्कन्धरूपः पदार्थः, स चावयवैः समुदितैरेव भवति, समुदायरूपत्वात् समुदायिन | इति । अथ यदि चायं जीवपरिणामस्तर्हि सर्वे जीवा अत्रोत्पन्नपूर्वा उत नेत्याशङ्कयाह - 'जम्बुद्दीवे णं भन्ते !" इत्यादि, जम्बूद्वीपे भदन्त ! द्वीपे सर्वे प्राणाः- द्वित्रिचतुरिन्द्रियाः सर्वे जीवाः- पञ्चेन्द्रियाः सर्वे भूताः - तरवः सर्वे सत्त्वाः - पृथि व्यप्तेजोवायुकायिकाः, अनेन च सांव्यवहारिकराशिविषयक एवायं प्रश्नः, अनादिनिगोदनिर्गतानामेव प्राणजीवादिरूपविशेषपर्यायप्रतिपत्तेः पृथिवीकायिकतया अपकायिकतया तेजस्कायिकतया वायुकायिकतया वनस्पतिकायिकतया उपपन्न पूर्वा:- उत्पन्न पूर्वाः १, भगवानाह - 'हंता गोअमा!" एवं गौतम ! यथैव प्रश्नसूत्रं तथैव प्रत्युच्चारणीयं पृथिवीकायिकतया यावद्वनस्पतिकायिकतथा उपपन्नपूर्वाः कालक्रमेण संसारस्यानादित्वात् न पुनः सर्वे प्राणादयो जीवविशेषा युगपदुत्पन्नाः सकलजीवानामेकका जम्बूद्वीपे पृथिव्यादिभावेनोत्पादे सकलदेवनारकादिभेदाभावप्रसक्तेः, न चैतदस्ति, तथा जगत्स्वभावादिति, कियन्तो वारानुत्पन्ना इत्याह- असकृद् - अनेकशः अथवा अनन्तकृत्वः - अनन्तवारान् संसारस्यानादित्वादिति । अथ जम्बूद्वीपेतिनाम्नो व्युत्पत्तिनिमित्तं जिज्ञासिषुः पृच्छति
For P&Praise Cnly
अत्र मूल-संपादकस्य मुद्रण-शुद्धेः स्खलनत्वात् शिर्षक-स्थाने 'सू० १७७-१७८' मुद्रितं, तत् अशुद्धं, अत्र सू० १७४-१७६' एव वर्तते
~ 1081~
७वक्षस्कारे द्वीपनामहेतुः उपसंहारः सू. १७७-१७८
॥५३९॥