________________
आगम
(१८)
“जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्तिः)
वक्षस्कार [७],
मूलं [१६२२- १६४] + गाथा:
मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [१८] उपांग सूत्र [७] "जम्बूद्वीप-प्रज्ञप्ति" मूलं एवं शान्तिचन्द्र विहित वृत्तिः
श्रीजम्पद्वीपशान्तिचन्द्री -
या वृत्तिः
||५२२ ||
| च्छ्रितानि - उत्कटानि भवन्ति, तत्र तपः - अनशनादि द्वादशविधं नियमः - शौचादिः ब्रह्मचर्य - मैथुनविरतिः, अत्र च | शेपत्र तानामनुपदर्शनमुस्कटमतधारिणां ज्योतिष्केषु उत्पादासम्भवात्, उच्छ्रितानीत्युपलक्षणं तेन यथा यथा अनुच्छ्रि तानीत्यपि बोध्यं, अन्यथोत्तरसूत्रे वक्ष्यमाणमशुत्वं नोपपद्येत, यच्छन्दगम्भितवाक्यस्य तच्छब्दगभितवाक्यसापे| क्षत्वादुत्तरवाक्यमाह तथा तथा तेषां देवानामेवं प्रज्ञायते ज्ञायते इति, तद्यथा - अणुखं वा तुल्यत्वं वा, न चैतदनुचितं दृश्यते हि मनुष्यलोकेऽपि केचिज्जन्मान्तरोपचित तथा विधपुण्यप्राग्भारा राजत्वमप्राप्ता अपि राज्ञा सह | तुल्यविभवा इति, अत्र व्यतिरेकमाह-यथा यथा तेषां देवानां ताराविमानाधिष्ठातृणां प्राग्भवार्जितान्युच्छ्रितानि तपोनियमब्रह्मचर्याणि न भवेयुस्तथा तथा तेषां देवानां नो एवं प्रज्ञायते - अणुत्वं वा तुल्यत्वं वा अभियोगिककर्मोदयेना| तिनिकृष्टत्वात्, अयमर्थः - अकामनिर्जरादियोगाद्देवत्वप्राप्तावपि देवर्डेरलाभेन चन्द्रसूर्येभ्यो द्युतिविभवाद्यपेक्षयाऽणुत्वमपि न सम्भवेत्, कुतस्तमां तेषां तैस्सह तुल्यत्वमिति । अथ द्वितीयं द्वारं प्रश्नयति- ' एगमेगस्स णं भन्ते !' इत्यादि, एकैकस्य भदन्त ! चन्द्रस्य कियन्तो महाग्रहाः परिवारः तथा कियन्ति नक्षत्राणि परिवारः तथा कियत्यस्तारागणकोटाकोव्यः परिवारभूताः प्रज्ञताः १, भगवानाह - गौतम ! अष्टाशीतिर्महाग्रहाः परिवारोऽष्टाविंशतिर्नक्षत्राणि परिवारः षट्ष|ष्टिसहस्राणि नव शतानि पञ्चसप्तत्यधिकानि तारागणकोटाकोटीनां परिवारभूतानि प्रज्ञप्तानि, यद्यप्यत्र एते चन्द्रस्यैव परिवारतयोक्तास्तथापि सूर्यस्यापीद्रत्वादेते एव परिवारतयाऽवगन्तव्याः, समवायाने जीवाभिगमसूत्रवृत्त्यादी तथा
For P&False Cly
अत्र मूल-संपादकस्य मुद्रण-शुद्धेः स्खलनत्वात् 'सू० १६२' इति द्विवारान् मुद्रितं, तत् कारणात् मया '१६२ R' इति सूत्रक्रम निर्दिष्टं
~ 1047~
७वक्षस्कारे अणुत्वादिपरिवार:
अबाधा सू. १६२-१६४
||५२२॥