________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्तिः)
वक्षस्कार [७],
--------- मूलं [१६२R-१६४] + गाथा: मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति:
Eccccercedesesesectroeseces
वक्तव्यं ७ एषामेव प्रमाणं वक्तव्य ८चन्द्रादीनां विमानानि कियन्तो वहन्तीति वक्तव्यं ९ एषां मध्ये के शीघ्रग-18 तयः के मन्दगतय इति वक्तव्यं १०, एषां मध्ये केऽल्पर्द्धयो महर्द्धयश्चेति वक्तव्यं ११ ताराणां परस्परमन्तरं वक्तव्यं । १२ अनमहिष्यो वक्तव्याः १३, तुटिकेन-अभ्यन्तरपपरसत्कस्त्रीजनेन सह प्रभुः-भोगं कर्तुं समर्थश्चन्द्रादिर्नवा इति वक्तव्यं १४ स्थितिरायुषो वक्तव्या १५ ज्योतिष्काणामल्पबहुत्वं वक्तव्यं १६ इति । अथ प्रथम द्वारं पिपृच्छिषुराह-18 'अस्थि ण'मित्यादि, अस्त्येतद् भगवन् ! चन्द्रसूर्याणां देवानां 'हिडिंपित्ति क्षेत्रापेक्षया अधस्तना अपि तारारूपः तारा विमानाधिष्ठातारो देवा द्युतिविभवादिकमपेक्ष्य केचिदणवोऽपि-हीना अपि भवन्ति केचित्तुल्या अपि-सहशा अपि । भवन्ति, अधिकत्वं तु स्वस्वेन्द्रेभ्यः परिवारदेवानां न सम्भवतीति न पृष्टं, तथा समेऽपीति चन्द्रादिविमानैः क्षेत्रापेक्षया समा:-समश्रेणिस्थिता अपि तारारूपा:-ताराविमानाधिष्ठातारो देवास्तेऽपि चन्द्रसूर्याणां देवानां युतिविभवादिकमपेक्ष्य केचिदणवोऽपि केचित्तुल्या अपि भवन्ति, तथा चन्द्रादिविमानानां क्षेत्रापेक्षया उपरि-उपरिस्थितास्तारारूपा:-ताराविमानाधिष्ठातारो देवास्तेऽपि चन्द्रसूर्याणां देवानां द्युतिविभवादिकमपेक्ष्य केचिदणवोऽपि केचित्तुल्या अपि भवन्ति, अत्र काकुपाठात् प्रश्नावगमः, एवं गौतमेन पृष्टे भगवानाह-गौतम! हन्तेति यदेव पृष्टं तत्सर्व तथै-18 वास्ति अतस्तदेवोच्चारणीयं, अत्रार्थे हेतुप्रश्नायाह-अथ केनार्थेन भगवन्नेवमुच्यते-'अस्थि ण'मित्यादिना, तदेव सूत्रमनुस्मरणीयं, अनोत्तरमाह-यथा यथा तेषां-तारारूपविमानाधिष्ठातॄणां देवानां प्राग्भवे तपोनियमब्रह्मचर्याण्यु-12
MAKELAENatok
~10464