SearchBrowseAboutContactDonate
Page Preview
Page 1025
Loading...
Download File
Download File
Page Text
________________ आगम (१८) “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [७], मूलं [ १६१] + गाथा: मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१८], उपांग सूत्र [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्तिः श्री. ८६ पंचानामपि युगभाविनीनामुक्तयोर्नक्षत्रयोर्मध्येऽन्तरेण समापनात्, तथा वैशाखीं द्वे, तद्यथा - स्वातिविंशाखा च शब्दादनुराधा, इदं हि अनुराधानक्षत्रं विशाखातः परं विशाखा चास्यां पूर्णिमास्यां प्रधाना ततः परस्यामेव पौर्ण| माश्यां तत्साक्षादुपात्तं नेहेति अतो द्वे इत्युक्तं, आसां बह्वीनां युगभाविनीनां उक्तनक्षत्रयोर्मध्येऽन्यतरेण समापनात्, तथा ज्येष्ठामूली पौर्णमासीं त्रीणि, तद्यथा-अनुराधा ज्येष्ठा मूलं च, आसां पंचानामपि युगभाविनीनां उक्तनक्षत्राणां मध्येऽन्यतरेण समापनात्, तथा आषाढी पौर्णमासीं द्वे, तद्यथा पूर्वाषाढा उत्तराषाढा च, आसां युगान्ते अधिकमा| ससम्भवेन पण्णामपि युगभाविनीनां उक्तनक्षयोर्मध्येऽन्यतरेण समापनात् । सम्प्रति कुलद्वारप्रतिपादनेन स्वतः सिद्धामपि कुलादियोजनां मन्दमतिशिष्यवोधनाय प्रश्नयन्नाह - 'साविट्ठिण्ण' मित्यादि, श्रविष्ठीं भदन्त ! किं कुलं युनक्ति उपकुलं युनक्ति कुलोपकुलं युनक्ति १, भगवानाह - गौतम ! कुलं वा युनक्ति वाशब्दः समुच्चये ततः कुलमपि युनक्तीत्यर्थः, एवमुपकुलमपि कुलोपकुलमपि, तत्र कुलं युञ्जत् घनिष्ठा नक्षत्रं युनक्ति, तस्यैव कुल (तया) प्रसिद्धस्य सतः श्राविष्ट्यां पौर्णमास्यां भावात्, उपकुलं युञ्जत् श्रवणनक्षत्रं युनक्ति, कुलोपकुलं युञ्जत् अभिजिन्नक्षत्रं युनक्ति, तद्धि तृतीयायां | श्राविष्ठयां पूर्णिमास्यां द्वादश मुहूत्र्त्तेषु किञ्चित्समधिकेषु शेषेषु चन्द्रेण सह योगमुपैति, ततः श्रवणसहचरत्वात् स्वयमपि | तस्याः पौर्णमास्याः पर्यन्तवर्तित्वात् तदपि तां परिसमापयति इति विवक्षितत्वाद्युनक्तीत्युक्तं, सम्प्रत्युपसंहारमाहयत एवं त्रिभिरपि कुलादिभिः श्राविष्ठयाः पौर्णमास्या योजनाऽस्ति ततः श्राविष्ठीं पौर्णमासीं कुलं वा युनक्ति उपकुलं For P&Pase Cinly ~ 1024 ~ 1
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy