________________
आगम
(१८)
“जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्ति:)
वक्षस्कार [७],
मूलं [ १६१] + गाथा:
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१८] उपांग सूत्र [७] "जम्बूद्वीप-प्रज्ञप्ति" मूलं एवं शान्तिचन्द्र विहित वृत्तिः
श्रीजम्बूद्वीपशान्तिचन्द्रीया वृत्तिः
॥५१०॥
भद्रपदा, आसां पञ्चानामपि युगभाविनीनामुतनक्षत्राणां मध्ये अन्यतरेण परिसमापनात्, आश्वयुज भदन्त ! पौर्णमासीं कति नक्षत्राणि योजयन्ति ?, गौतम ! द्वे योजयतः - रेवती अश्विनी च, इहोत्तरभद्रपदानक्षत्रमपि कांचिदाम्ययुज पौर्णमासीं परिसमापयति परं तत्प्रोष्ठपदीमपि लोके च प्रोष्ठपद्यामेव तस्य प्राधान्यं तन्नाम्ना तस्याः अभिधानाद् अतस्तदिह न विवक्षितमित्यदोषः, अतो द्वे समापयत इत्युक्तं, आसां बह्वीनां युगभाविनीनामु कनक्षत्रयोर्मध्येऽ| न्यतरेण परिसमापनात्, तथा कार्त्तिकीं पौर्णमासीं द्वे नक्षत्रे, तद्यथा-भरणी कृत्तिका च, इहाप्यम्विनीनक्षत्रं कांचित् कार्त्तिकीं पौर्णमासी परिसमायति परं तदाश्वयुज्यां पौर्णमास्यां प्रधानमितीह न विवक्षितमित्यदोषः, अतोऽत्रापि द्वे इत्युक्तं, आसां बह्वीनां युगभाविनीनां उक्तनक्षत्रयोर्मध्येऽन्यतरेण परिसमापनात्, तथा मार्गशीर्षी पौर्णमासीं द्वे नक्षत्रे, तद्यथा-रोहिणी मृगशिरश्च, आसां पंचानामपि युगभाविनीनां उकनक्षत्रयोर्मध्येऽन्यतरेण परिसमापनात्, तथा पौषी पौर्णमासीं त्रीणि नक्षत्राणि, तद्यथा-आर्द्रा पुनर्वसुः पुण्यश्च, आसां युगमध्येऽधिकमाससम्भवेन षण्णामपि युगभाविनीनां | उक्तनक्षत्राणां मध्येऽन्यतरेण परिसमापनात्, तथा माघ पौर्णमासीं द्वे नक्षत्रे, तद्यथा-अश्लेग मघा चशब्दात् पूर्वफल्गुनीपुष्यी ग्राह्यौ, तेनासां युगभाविनीनां पञ्चानामपि मध्ये काशिदश्लेवा काञ्चिन्मघा काश्चित् पूर्वफल्गुनी कांचित्पुष्यश्च | परिसमापयति, तथा फाल्गुनी पौर्णमासीं द्वे नक्षत्रे, तद्यथा- पूर्व फल्गुनी उत्तर फल्गुनी च, आसां पंचानामपि युगभाविनीनां उक्तयोर्नक्षत्रयोर्मध्येऽन्यतरेण समापनात्, तथा चैत्री पौर्णमासीं द्वे नक्षत्रे, तद्यथा - हस्तः चित्रा च, आसां
For P&Praise City
~1023~
अवक्षस्कारे कुलादिपूर्णिमामा
वास्याः सू. १६१
॥५१०॥