SearchBrowseAboutContactDonate
Page Preview
Page 595
Loading...
Download File
Download File
Page Text
________________ आगम (१७) प्रत सूत्रांक [१०५R - १०६ ] दीप अनुक्रम [२०० -२०१] “चन्द्रप्रज्ञप्ति” – उपांगसूत्र - ६ ( मूलं + वृत्ति:) प्राभृत [२०], प्राभृतप्राभृत [-] मूलं [१०५२-१०६] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१७], उपांग सूत्र [६] "चन्द्रप्रज्ञप्ति " मूलं एवं मलयगिरि-प्रणीत वृत्तिः भूतश्चारुः-शोभनो वेषो यस्याः सा तथाभूता तथा 'संगत हसियभणिय चिट्ठिय संलावविलासनिउणजुत्तोवयारकुसलाए' संगतं मैत्रीगतं गमनं सविलासं चङ्कमणमित्यर्थः हसितं सप्रमोदं कपोलसूचितं हसनं भणितं मन्मथोद्दीपिका विचित्रा भणितिश्चेष्टितं सकाममङ्गप्रत्यङ्गावयवप्रदर्शन पुरस्सरं प्रियस्य पुरतोऽवस्थानं संलापः प्रियेण सह सप्रमोदं सकामं परस्परं सङ्कथा एतेषु विलासेन - शुभलीलया यो निपुणः सूक्ष्मबुद्धिगम्योऽत्यन्त कामविषयपरमनैपुण्योपेत इत्यर्थः युक्तो देशकालोपपन्न उपचारस्तत्कुशलया अनुरक्तया कदाचिदप्यविरक्तया मनोऽनुकूलया भार्यया सार्द्ध मेकान्तेन रतिप्रसक्तो - रमण. प्रसक्तोऽन्यत्र कुत्रापि मनोऽकुर्वन्, अन्यत्र मनःकरणे हि न यथावस्थितमिष्टभार्यागतं कामसुखमनुभवति, इष्टान् शब्दस्पर्शरसरूपगन्धरूपान् पञ्चविधान् मानुषान् - मनुष्यभवसम्बन्धिनः कामभोगान् प्रत्यनुभवन्-प्रतिशब्द आभिमुख्ये संवेदयमानो विहरेद्-अवतिष्ठेत्, 'ता से ण' मित्यादि, तावच्छन्दः क्रमार्थः, आस्तामन्यदप्रेतनं वक्तव्यमिदं तावत्कध्यतां, स पुरुषः तस्मिन् 'कालसमये' कालेन तथाविधेनोपलक्षितः समयः अवसरः कालसमयस्तस्मिन् कीदृशं सातरूपं - आल्हादरूपं सौख्यं प्रत्यनुभवन् बिहरति १, एवमुक्ते गौतम आह- 'ओरालं समणाउसो' हे भगवन् ! श्रमण। आयुष्मन् ! उदारं-अत्यद्भुतं सातसौख्यं प्रत्यनुभवन् विहरति, भगवानाह - 'तस्स ण'मित्यादि, 'एसो' एतेभ्यस्तस्य पुरुषस्य सम्बन्धिभ्यः कामभोगेभ्य 'अनंतगुणविसिद्वतरा चैवत्ति अनन्तगुणा - अनन्तगुणतया विशिष्टतरा एव व्यन्तरदेवानां कामभोगाः, व्यन्तरदेव कामभोगेभ्योऽप्यसुरेन्द्रवर्णानां देवानां कामभोगा अनन्तगुणविशिष्टतराः, तेभ्योऽनन्तगुणविशिष्टतरा इन्द्रभूतानां असुरकुमाराणां देवानां कामभोगाः, तेभ्योऽप्यनन्तगुणविशिष्टतरा ग्रहनक्षत्र For Park Use Only ~594~ wor
SR No.004117
Book TitleAagam 17 CHANDRA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages602
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy