________________
आगम
(१७)
प्रत
सूत्रांक
[५]
दीप
अनुक्रम
[११७]
“चन्द्रप्रज्ञप्ति” – उपांगसूत्र - ६ ( मूलं + वृत्ति:)
प्राभृत [१५],
प्राभृतप्राभृत [-]
मूलं [ ८५]
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१७], उपांग सूत्र [६] "चन्द्रप्रज्ञप्ति " मूलं एवं मलयगिरि-प्रणीत वृत्तिः
तथाहि - यदि सप्तषष्ट्या नाक्षत्रैमीसेरष्टादश शतानि पञ्चत्रिंशदधिकानि अर्द्धमण्डलानि नक्षत्रस्य लभ्यन्ते तत एकेन - नाक्षत्रेण मासेन किं लभामहे १, राशित्रयस्थापना -- ६७ । १८३५ । १ । अत्रान्त्येन राशिना मध्यराशेर्गुणनं, तत | आद्येन राशिना भागहारो लब्धानि सप्तविंशतिरर्द्धमण्डलानि अष्टाविंशतितमस्य चार्द्ध मण्डलस्य पविंशतिः सप्तषष्टिभागाः २७ । । ततो द्वाभ्यामर्द्धमण्डलाभ्यामेकं मण्डलमित्यस्य राशेरर्द्धकरणे लब्धानि त्रयोदश मण्डलानि चतुर्द * शस्य मण्डलस्य सार्द्धाः षट्चत्वारिंशत्सप्तषष्टिभागाः । १३ १६ । सम्प्रति चन्द्रमासमधिकृत्य चन्द्रादीनां मण्डलनिरूपणां करोति- 'ता चंद्रेण' मित्यादि, ता इति पूर्ववत्, चान्द्रेण मासेन प्रागुक्तस्वरूपेण चन्द्रः कति मण्डलानि चरति, भगवानाह- 'ता चोहसे त्यादि, चतुर्द्दश सचतुर्भागमण्डलानि चतुर्भागसहितानि मण्डलानि चरति एकं च चतुर्विंशशतभागं मण्डलस्य, किमुक्तं भवति ?- परिपूर्णानि चतुर्दश मण्डलानि पञ्चदशस्य च मण्डलस्य चतुर्भागं चतुर्विंशत्यधिकश तसत्कमेकत्रिंशद्भागप्रमाणमेकं च चतुर्विंशत्यधिकशतस्य भागं द्वात्रिंशतं पञ्चदशस्य मण्डलस्य चतुर्विंशत्यधिकशतभागान् चरति, तथाहि--यदि चतुर्विंशत्यधिकेन पर्वशतेनाष्टौ शतानि चतुरशीत्यधिकानि मण्डलानां लभ्यन्ते ततो * द्वाभ्यां पर्वभ्यां किं लभामहे १, राशित्रयस्थापना - १२४ । ८८४ । २ । अत्रान्त्येन राशिना द्विकलक्षणेन मध्यराशेर्गुणनं जातानि सप्तदश शतान्यष्टपथ्यधिकानि १७६८, तेषां चतुर्विंशत्यधिकेन शतेन भागहरणं, लब्धानि चतुर्दश मण्डलानि पञ्चदशस्य च मण्डलस्य द्वात्रिंशत् चतुर्विंशत्यधिकशतभागाः १४ । । 'ता चंद्रेण' मित्यादि सूर्यविषयं प्रश्नसूत्रं सुगमं, 'ता पन्नरसे'त्यादि, पञ्चदश चतुर्भागन्यूनानि मण्डलानि चरति एकं च चतुर्विंशत्यधिकशतभागं मण्डलस्य,
For Penal Use Only
~508~
wor