________________
आगम
(१७)
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्तिः ) प्राभृत [१२], ------------------- प्राभृतप्राभृत [-], -------------------- मूलं [७६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१७], उपांग सूत्र - [६] "चन्द्रप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत
सूत्रांक
[७६]
दीप
रेकस्य मुहूर्त्तस्य सत्का द्वापष्टिभागाः ७२ एकस्य च द्वाषष्टिभागस्य द्वादश सप्तषष्टिभागाः । । तत एतेभ्यो मुहूर्ता-21 नामष्टभिः शतैरेकोनविंशत्यधिकैरेकस्य च मुहूर्तस्य चतुविशत्या द्वाषष्टिभागैरेकस्य च द्वापष्टिभागस्य षषष्ट्या सप्तषष्टिभागैरेकः परिपूर्णी नक्षत्रपर्यायः शुद्धः, स्थितानि पश्चान्मुहूर्तानां शतानि त्रीणि सप्तविंशत्यधिकानि एकस्य च मुहूतस्य सप्तचत्वारिंशत् द्वापष्टिभागा एकस्य च द्वाषष्टिभागस्य त्रयोदश सप्तपष्टिभागाः ३२७ । । तत एतेभ्यत्रिभिर्महशतनवोत्तरैरेकस्य च मुहूर्तस्य चतुर्विंशत्या द्वापष्टिभागैरेकस्य च द्वापष्टिभागस्य पदूषष्ट्या सप्तषष्टिभाग-1 रभिजिदादीनि रोहिणिकापर्यन्तानि नक्षत्राणि शुद्धानि, 'तेसु चेव नवोत्तरेसु रोहिणिया' इत्यादिप्रागुक्तवचनात् , ततः स्थिताः पश्चादष्टादश मुहर्ता एकस्य च मुहूर्तस्य द्वाविंशतिषिष्टिभागा एकस्य च द्वाषष्टिभागस्य चतुर्दश सप्तपष्टिभागाः |१८ एतावता मृगशिरो न शुक्ष्यति, तत आगतं मृगशिरा नक्षत्रं एकादशसु मुहर्तेषु एकस्य च मुहूर्तस्य एकोनचत्वारिंशति द्वापष्टिभागेषु एकस्य च द्वापष्टिभागस्य त्रिपञ्चाशति सप्तपष्टिभागेषु शेपेषु द्वितीया श्रावणमासभाविनीमावृत्ति प्रवर्तयति ( संप्रति सूर्यनक्षत्रविषयं प्रश्नसूत्र निर्वचनसूत्रं चाह-) 'तं समय च णमित्यादि, तस्मिंश्च समये सूर्यः केन नक्षत्रेण सह योगमुपागतः तां द्वितीयां वार्षिकीमावृत्तिं युनक्ति !, भगवानाह-'ता पूसेण'मित्यादि, ता इति पूर्ववत् , पुष्येण युक्तः, 'तं चेय'ति वचनसामादिदं द्रष्टव्य'पुस्सस्स एगूणवीस मुत्ता तेयालीसं च वायहिभागा मुहुत्तस्स बावविभागं च सत्तहिहा छेत्ता तेत्तीस पुष्णिया भागातासेसा' इति, इह सूर्यस्य दशभिरयनैः पक्ष सूर्यनक्षत्रपर्याया लभ्यन्ते, द्वाभ्यां चायनाभ्यामेकः, तत्रोत्तरायणं कुर्वन सर्प-12
अनुक्रम [१०८]
%Exce
ERICAtuninternation
~ 458~